पृष्ठम्:तिलकमञ्जरी.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। नामा कमलगुमसेनापतेरत्यन्तमाप्तो लेखहारकः कुमारहरिवाहनल कुशलवार्तामावेदयति । श्रुत्वा चेदमाकस्मिकमतर्कितामृतवृष्टिकल्प बले शटिति विघटिताशेषशोकांश्चकार पातालपादिवोन्ममम्, प्रल- यघनदुर्दिनादिव निःसृतम्, कृतान्तमुखकुहरादिवाकृष्टम् , महाका. लकरकपालोदरादिवोच्छलितम् , तक्षकाशीविषवेगवेदनयेवोन्मुक्तम् , अभिव्यकोपलक्षिताकाशकालदिग्विभागमवगतात्मीयपरकीयपरिजनम- वलोकितासन्नवर्तिसुहद्वन्धुवर्गमेकहेलोतीर्णसर्वाङ्गसंज्वरभुद्वहनात्मान- मादरहितनयनयुगलो गुरुमिव खामिनमिवाराध्यमिव जीवितप्रदमिवे- दैवतमिव सुचिरमवलोक्य तं पुरुषमाहूय संभाष्य चासनदानवचनेन 'भद्रमुख, भद्रमसहशसौहार्दशालिशीलामृतमहोदधिः परमसुहृदः कम- लगुप्तस्य' इत्यवोचत् । अथ स तेन संभ्रमवता तस्य संभाषणेन कृतकृत्यमात्मानं मन्य- मानो भृत्यक्त्समुपसृत्य सत्वरकृतप्रणामः 'अद्य भद्रं मन्चक्षुषा महाभा- गदेहारोम्यदर्शनेन' इत्सुदीर्योत्तरीयपटपल्लवप्रान्तसंयतं संयनमादाय दक्षिणकरेणापतो लेखमक्षिपत् । सिंहलेबरतनयोऽपि तं गृहीत्वा निरीक्ष्य च क्षणं तूष्णीमेच दृष्ट्वा किमपि हृष्टचेताः सतर्षमर्पितं श्रवणस्य शृण्वतः सकलस्वापि राजकस स्पष्टवणाचारया वाचा खयमवाचयत् । पाठावसाने च तं पुरोलिखितरुचिरलेखखस्तिकमावासगृहमिव मुहु- निरीक्ष्य सस्पृहं पांशुकणिकाधूसरितवर्ण गुरुचरणयुगमिवावसाप्य शिरसि प्रकृष्टपुण्योदयासादितं प्रधानरतालंकारमिव वेष्टयित्वा योन निकटवर्तिनः शय्यापालकम हस्ते : चकार । व्याजहार चं प्रहर्षपुल- कितापोलोवरः - परितोष, कदा कमलगुलेनैष लेखः प्रार,