पृष्ठम्:तिलकमञ्जरी.pdf/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २२९ गाथकपेटकोपयुष्टमुद्दष्टजयशब्दवन्दिवृन्दाध्यासितसविधभूभागमागृहीतकनकदण्डप्रतीहारमण्डलाधिष्ठितद्वारदेशमभिरामदर्शनमारामलक्ष्म्याः साक्षादिव चतुःशालमतिविशालमेकमकठोरहारीतहरितप्रभ रम्भागहमपश्यत् । तस्य च मध्यमागे कृतावस्थानममलांशुकच्छादिते किंशुकच्छविनि चरणारविन्दरुचिसंतान इव स्त्यानतां गते पृथुनि कुरुविन्दमणिशिलातले निषण्णमच्छशिशिरेण शैलेन्द्रमिव हिमद्रवेण चन्द्रातपरुचा दिव्यचन्दनेनापादमनुलिप्तमतिविमलधनसूत्रेण संख्यानशास्त्रेणेव नवदशालंकृतेन श्वेतचीनवस्त्रद्वयेन संवीतमखिलदेहाभरणमणिसंक्रान्ताभि- रासन्नचामरग्राहिणीप्रतिमाभिर्विद्यादेवताभिरिव सद्यःसाधिताभिः सर्वतोऽधिष्ठितशरीरमानाभिलम्बमभिनवं मौक्तिकपालम्बमद्याप्यशुष्कमभिकवारिकणकलापमिव हेमाचलशिलाविशालेन वक्षसा धारयन्तं निसर्गनिर्मलालोकाभ्यामभिनवं नयमार्गमुपदेष्टुममरगुरुभार्गवाभ्यामिवोपगताभ्यामिन्दुमणिकुण्डलाभ्यामाश्रितोभय श्रवणमलिकतटसङ्गिना विततभाखरेण कनकपट्टबन्धेन वलयितमुत्तमं मणिमुकुटमरिकुलविनाशार्थमुद्गतं तपनमण्डलमिव सपरिवेषमुत्तमाङ्गच्छविमुद्रहन्तमितस्ततः पहिततरलतारकाभिर्दिभिरिवासवागताभिश्चतसृभिरिवनिताभिरुद्ध्यमानचामरमुदारनेपथ्यसहचरीवृन्दपरिवृतया विधूयमानेन कान्त्या विलासिनीसंहत्या च विरलमविरलमुज्वलहेमदण्डेन बालव्यजनकत्रजेन वीज्यमानया सखीजनोत्सङ्गनिहितनिःसहार्धदेहयोद्धृतैकैकमणिवलयमात्रालंकारया ताम्बूलविरहोत्कलितमधुरबिम्बाधररागया शरदिवेव चन्दनाङ्गरागपाण्डुरपयोधरया राजहंसिकयेव सरसमृणालिकाहारभूषितशरीरया तत्कालमेव सलिलादुद्धृतैः कमलकुमुदकुवलयमृणालैः कल्पि-