पृष्ठम्:तिलकमञ्जरी.pdf/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७० काव्यमाला।

साकं प्रेक्षकमनोवृत्तिभिः प्रवर्तितुम् । असिते च नृत्यकर्मणि कृतरङ्गप्रणामामषिगताधिकोल्लासैः श्रमश्वासोद्गमैः किंचित्सायासकुचमण्डलामुल्लसितविरलखेदाम्बुकणकव॒रीकृतकपोलपत्रभङ्गां चित्रलेखायाः समीपे निविशमानामाहूय दर्शितावकाशः शबरराजराजो निजासनस्यैकदेशे मामुपवेशयन् । निविष्टायाश्च मे शहासंकोचिततनोरवनितलनिहितनिस्तरणदृष्टर्नर्तनायासविघटितसंनिवेशं संयम्य हस्ताभ्यां केशहस्तमारोप्य विसस्तमीषद्विलासावतंसपल्लवं श्रवसि किंचिदापलितकन्धरो दक्षिणकराङ्गुलियुगेनोन्नमय्य चिबुकदेशे त्रपाभरावनतमाननं सबहुमानमभ्यघित–'वत्से मलयसुन्दरि, दूरमावर्जितानि त्वया सामाजिकमनांसि । कथय कुतस्तवेदशस्यास्य विद्याधरलोकेऽप्यतिविरलप्रचारस्य सकलखेचरचमत्कारकारिणो नाट्यवेदस्याधिगतिः । कथं शिक्षिता खल्पेन कालेन ललितानेतावतः करणप्रयोगान् । केन संक्रमिता कृतिना वरणसमस्तरङ्गरागहेतुरियमङ्गहाराणां गतिः । अतिमहत्कुतूहलं मे । न हि कदाचित्क्षितिचारिणीष्वबलासु दृष्टा श्रुता वा स्माभिरेवंविधा वैदग्धी नाट्यकर्मणि' इति स्तुताहं खेचराधिपेनाधिकमधोमुखीभूय लज्जया पाणिनखशिखामिः क्षोणिमलिखम् । 'पुत्रि,जनकनिर्विशेषे मयि किमियमपत्रपा । स्वकीयं तव स्थानमिदमशक्षिता व्याहर' इति च पुनः पुनरुच्यमाना तथैवाधोमुखी शनैरवदत्-'तात,नैकः कश्चिदुपदेष्टा नाट्यविद्यायां ममाभूद्यं विज्ञापयामि । अपि तूपदेशकाले कुतूहलाविष्टमानसेन मत्पित्रा पृथिव्यामपि ये केचिदुपलब्धाः प्रकृष्टा नाट्यतन्त्रे भरतपुत्रास्ते समस्ता अप्युपसंगृहीताः । तत्र च कोऽपि कुतश्चिदवगतः प्रयोगः । ये पुनरिहातिरमणीयतया विशेषतः प्रतिपन्नास्तातेन ते स्वयं मया नृत्यन्तीमम्बामवलोकयन्त्यापृच्छन्त्या च