पृष्ठम्:तिलकमञ्जरी.pdf/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२७४ काव्यमाला ।

'देव, यदि संदेहस्तदादिश्यतां यवनगतिः । इहैवानयतु ताम्' ।'आर्य, गर्हितमसद्विधानामकाले परकलत्रदर्शनम् । अलं च पवनगतिना क्लेशितेन । इयमेव चित्रलेखा बालभावात्प्रभृति तस्याः प्रियसखी निजप्रेम्णैव विज्ञाय कथयिष्यति यथावस्थितं सर्वमपि तद्वृत्तान्तम् । अपरं च यदि सा सत्यमेव वत्सा गन्धर्वदत्ता ततस्तया सह दर्शनमस्माकमचिरकालभावित एव भगवता तेन त्रिलोकविख्यातयशसा कालत्रयज्ञेन ज्ञानचक्षुषा प्रत्यक्षीकृतोऽस्या एव मलयसुन्दार्या विवाहसमयो मयैव प्रस्तुतः साधयिता । कृतमौत्सुक्येन' इति चिरं मया मन्त्रिणा च सार्धमारब्धसंलापस्य खेचरपतेः प्रशंसन्निव वचनमुपतोरणं रराण प्रभातशङ्कः ।  श्रुत्वा च तं स विद्याधरेश्वरो विरतसंगीतकरसावेशो निवेशितमतिः स्नानदेवार्चनप्रभृतीनि प्राभाविके कर्मणि समासन्नोपविष्टानवलोक्य दृष्ट्या प्रसादस्निग्धया सर्वानेव देवयात्रादर्शनागतान्विद्याधरपतीक्रमेण विससर्ज । निक्षिप्तदृष्टिश्च मयि नरेन्द्रकन्यकामु च तासु किमपि खचेतसा संप्रधार्य युगपन्न्यञ्चितोभयभ्रु संज्ञया मनोज्ञवपुषं पुरुषमाप्ततममाजुहाव।  सजवमुपसृत्य स्थितं च तं पुरस्तादास्यविन्यस्तवस्त्रपल्लवव्यञ्जितप्रश्रयम्, 'अरे तपनवेग त्वरितमस्याः काञ्चीनृपदुहितुः किंचिदसकृतं दर्शयित्वा बहुमानमद्भुतवस्तुदर्शनेन कुरु सफलमिहत्यमागमनम्।एताभिश्च सह समस्ताभिरवनिपालतनयाभिः प्रापययैनां प्रच्छनरूपामेव निजसदनम्' इति शिक्षयित्वा कृत्वा च देवताप्रणाममासनादुत्तस्थौ ।अनुत्थितासनखेचरपरिवृतश्च गत्वायतनमण्डपद्वारमध्यासितमहार्हमणिमयविमानो विलोकयन्त एव मे झगिति नवनिशाकितस्त्रिंविंशनिर्म-

लमाकाशमुदपतत्।


१.विनयम्. २. 'नवनिशातनिस्त्रिंश' इति स्यात् .