पृष्ठम्:तिलकमञ्जरी.pdf/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८६ काव्यमाला नारतोत्सवान्, प्रवर्तय तरणताड्यमानपृथुनितम्बफलका तीरतरुकुसुमसंवलितो(स्रोतोजलासु वेलानदीषु जलक्रीडाम् , उपरि विततविशालसितपटा च संचर स्वयमनेनोपदिश्यमानमार्गा निसर्गशिशिरेषु वारिराशेरस्य सुवेलमलयोपान्तवर्तिषु वेलावनेषु । किं वानेन बहुना ।प्रभुरप्येष भृत्यतामुपनीय सहितः समस्तेनात्मवित्तेन तव समार्पितो मया । कुरु स्वमहिमोचितम्' इत्युदीर्य कन्धरानिहितपाणिस्तं मे नृपकुमारं चरणयोरपातयत् ।  असौ तु कृत्वा प्रणतिमुन्नमितवदनो विलक्षया दृष्टया विलोक्य मे मुखमुद्भिन्नहासः सविलासमुल्लासितेन लीलारविन्देन ताडयित्वा शिरसि तमवोचत्-.-'मूर्ख, कस्यास्त्वया कारितः प्रणाममेवमत्यादरेण । का चेयमन्यतो मुखनिबद्धकरसंपुटेन प्रसादिता भवता, यां प्रसादयितुमिदमेतावदनिबद्धमभिहितं त्वया । जानासि तां क्व सा तिष्ठति' इति ब्रुवाणं तमन्तर्मुखनिरुद्धहासोद्गमः स नाविकयुवा पुनरवादीत्- "कुमार, दोषग्राही शून्यहृदयश्च त्वमिति निश्चितं मयाद्य,येन सर्वदा

प्राकृतलोकसहवासिनः प्रकृतिमुग्धस्य ममाप्युचितकारितां विचारयसि । एतामपि पुरस्थितां प्रत्यक्षदेवीं प्रसादितां का त्वयेयमिति पृच्छसि । अहो, सालस्याग्रतो देहि दृष्टिम् । प्रकटमेवावेदयामि । येयमभ्यर्ण आस्ते नौरैतिरूपधारिण्यवनिपालनन्दनी,सा त्वदर्थे मयेत्थमभ्यर्थिता । त्वमप्यस्या एवं पातयित्वा चरणयोः सह समस्तेनात्वा(म)विभवेन भृत्यतां नीतः, न कस्याश्चिदन्य:स्याः' इति गदन्तं च तं सहासमाकृष्य भावितदीयवकालापसं


१. सितः पटो यस्याः, सिद्धश्च. २. अतिरूपधारिणी नौः, नौ आवयोः रतिरूपधारिणी वा.