पृष्ठम्:तिलकमञ्जरी.pdf/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। साध्वसादुत्थाय बद्धप्रबलकम्पाम्, 'कि पापकारिणि, कृतः कारणमन्तरेण त्वयास्य सकलविश्वविश्रामवेश्मनो निजस्य विनाशो राजवंशस्य इति मामेव निरनुक्रोशमाक्रोशन्तीम्, 'अनार्य, किमियं त्वया स्व कार्यर्थसाधनाय निधनमुपनीता' इति तातमपि जीवितनिरपेक्षतया प्रतिक्षिपन्तीम् , 'विगतलक्षणे बन्धुसुन्दरि, जानत्यापि जीवितमुखष्टुकामा किमियमवघीरिता त्वया, निर्गच्छन्ती धृता च । किं न धावित्वा हठात्पृष्ठतो विमोहितया च संकटमासादकुड्यान्तरालपरिसर्पणेन कस्मान्न कोलाहलः कृतः' इति सानुतापमात्मानमेव प्रतिपदं निन्दतीम् , अतिविशदचन्द्रातपापि 'भगवति त्रयोदशीक्षणदे, क्षीणपुण्याया मम त्वमपि कालरात्रिः संवृत्ता । मातर्धरित्रि, विधुरेऽस्मिन्निमामपालयन्ती पृथ्वीपालबालिकामलीकं वहसि धात्रीशब्दम् । देवि कात्यायनि, मदीयजीवितेन भर्तृदारिकाया रक्ष जीवितम् । आवयोर्नकश्चिद्भेदः । खामिन्यो वनदेवताः, निवेदयत पात्रसंक्रमेण देव्या गन्धर्वदत्तायाः सुतावृत्तान्तम् । अत्यन्ततान्ता न शक्नोम्यहमन्तःपुरं गन्तुम् । तात पितृपते, निर्दयप्रकृतिरपि विधेहि मयि कृपामेकवारं कृपणायां प्रियसखीप्राणदानेन । सलिलसंगत्यैव खच्छशिशिराशयोऽसि सततम् । अतो वरुणो भूत्वा सकरुणः कुरु विषाशामिमाम् । पाशमोक्षणे तवैव वैचक्षण्यम् । भगवन्पवन , रुद्धगलरन्ध्रवेदनाविरसाया भव समाश्वासहेतुरस्याः श्वासप्रसरदानेन । हताश चित्तयोने, चैत्रोत्सवेनैव निश्चेतनीभूतो न चिन्तयस्यात्मानम् । अनया विना विधुरेषु कुण्ठितशरस्य कस्ते शरणम् । दुरात्मन् , आत्मनैव निष्पादिता विपदमीहशीमस्याः पश्यतो मनागपि न ते विच्छायता संजाता ।अशोक, सत्यमिवाशोकस्त्वम्' इत्याद्यनेकप्रकार संबद्धमसंबद्धं च विलपन्ती बलवता शोकवेगेन विधुरीकृतां बन्धुसुन्दरीमपश्यम् ।