पृष्ठम्:तिलकमञ्जरी.pdf/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मया सह विगतयन्त्राणि शैशवक्रीडितानि परिहासवचनानि विश्रम्भाभिभाषणानि च भावयन्ती भीषणोदीर्णशोका चिरमरोदीत् ।  उपनीतवदनक्षालनोकां च तेन प्रक्षाल्य वदनं प्रमृज्य चोत्तरीयपल्लवप्रान्तेन मत्संनिधौ न्यषीदत् ।

 उत्सृष्टदीर्घनिश्वासा च स्थित्वा कंचित्कालमवचना मामवोचत्-'भर्तृदारिके, किंचिदितोमुखी भव । पश्य चातिसुन्दरोदारदर्शनमपूर्वतेजोविशेषपिशुनितमहानरेन्द्रवंशोत्पादमादरादमुं महाभागम् । अद्य ते दत्तं जीवितमनेन । यद्ययं तदायतनवर्ती न स्यात् , आकर्ण्य वा मदीयमाक्रन्दमतिवेगादगणितनिजश्रमो नागच्छेत् , उल्लुत्य च व्योति खड्गधेनुकया पाशं न विनिकृन्तेत्, पतन्ती च भूतले जातमूर्च्छो न प्रतीच्छेत् , उत्क्षिप्य च भुजाभ्यामेतदम्भःस्पर्शजन(?)पवनमुपवनदीर्घिकातीरं दीपिकातीरं नावतारयेत् , तदा कथं ते पुनः प्राणलाभः स्यात् ।तदेष ते परममुपकारी नृपकुमारः । न च तवैकस्याः, सर्वस्यापि सपरिग्रहस्य त्वदीयगोत्रस्य, त्वया प्रयुज्यमानामर्हति प्रणामादिकां सर्वामपि गृहायातमान्यजनसमुचितामपचितिम्' इत्युदीर्य कन्धरापृष्ठ-लुठितपाणिः प्रथमदर्शनत्रपाविकुञ्चितस्मिता नयनतारकां तस्य मां प्रणाममकारयत् ।

 सोऽपि किंचित्कृतप्रतिषणतिरन्तर्गतप्रेमशंसिना श्रीगयन्नमृतवारिच्छटाच्छेन विकसता दृष्टिविक्षेपेण मच्चित्तमीषद्वलितवदनस्तामवादीत् बन्धुसुन्दरि, प्रवृद्धेन प्रतिदिवसममुना सौजन्येन मधुनेव परमृता मधुरभाषितां परामानीतासि, येन मामपि निदेशमात्रकारिणमत्यन्तमुपकारीति कीर्तयसि । कोऽहमुपकारक्रियायामस्याः । त्वयैव


१. 'नोदका च' स्वाद.