पृष्ठम्:तिलकमञ्जरी.pdf/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स्थास्य सदृशं दानमपि नास्ति । किं वस्तुनान्येनोदितेन । निजभुजार्जितामवनिमप्यशेषामर्पयामि ते, किं तु सांप्रतं दातुमप्रभुरहम् । यदि त्वं प्रीतिदानार्थिनी तदेनामात्मसहचरी याचख । मम पुनः शरीरादारभ्य यत्किंचिदस्ति तत्पूर्वमेव सर्वमुपनीतमस्यै समुद्रमध्यावस्थितेन मुहृदा कर्णधारेण' इत्यभिहितासौ द्विगुणतरमवाप्तपरितोषा विहस्य तं पुनरभाषत-'कुमार, कस्मान्महाकृपण इव मिथ्योत्तरैर्निवारयसि माम् । अनाकुलस्तिष्ठ । न मयार्थार्थमाबद्ध एष ते पुरः प्रार्थनाञ्जलिः । इदं ममाभिप्रेतम् । प्रेतनाथमुखनिपतितामेतां मलयसुन्दरीमुद्ध कामया काममनुभूत एतया क्लेशः' इति कुर्वता मय्यनुकोशम्, 'क्रमागतो महापुरुषमार्गः कुलाभिमानिभिरत्याज्यः' इति भृशं विमृशता, 'स्वदारपरिपालनकर्म गृहमेधिनां धर्मः' इत्यजत्रं ध्यायत्ता, 'त्रिभुवनातिशायिरूपलावण्यया दुर्गदेशस्थितोऽप्यविज्ञातकुलशीलसंनिवेशो दृष्टमात्रः खयंवृतोऽहमनया' इति मनसि न्यस्यता, समुद्रपातादिमरणाध्यवसायसूचितममुष्याः नेहमन्वहं चिन्तयता, 'मद्वियोगे प्राणनिरपेक्षया रक्षितं चारित्रमात्मीयमनया' इति मन्यमानेन पुण्यभागिना तथा तथा प्रयतितव्यम् , यथा भूयोऽपि नेयं दुःखभागिनी भवति' इत्यभिधाय विहिताश्रुपाता तस्य पादयोन्यपतत् ।

 सापि तां तथा पादपतितामवलोक्य करुणया शुचा च युगपद्धहीतचेताः सखेदमवदत्-'बन्धुसुन्दरि,पृथग्जनोऽपि न वृथाभ्यर्थनः कृतो मया, किं पुनः प्राणपरिरक्षणममुष्याः कृतं यया तां सद्य एवाध विहितोपकारां करोमि । भवतीमन्तरेणापि ते वचनमवधृतं मया सर्वम् । अस्ति चाभ्युपगमः। तथापि विधिरत्र प्रमाणम्' इत्यभिधाय तूष्णीमभूत् ।


'सोऽपि इति स्यात्,