पृष्ठम्:तिलकमञ्जरी.pdf/३३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ततोऽहमुपजातसमधिकधृतिस्तत्रोनिद्रकाननगुमोपगूढे दूरारूढशशधरांशुषोरणिध्वस्ततमसि रसितानुमितसितहंसपतत्रिमिथुने कुमुददीर्षिकातीरसैकते कुसुमशयनीयोपविष्टा समीपविनिविष्टेन मन्मुखासक्तगाढानुरक्तदृष्टिना दयितेन चतुरचटुनिवेशपेशलैः परिहासवचनैर्विनोधमाना विनिहितात्यष्टिरुत्सकदेशे बन्धुसुन्दर्याः कदाचिदप्राप्तपूर्वमतिशयितगीर्वाणसदनावासमुदममन्दमानन्दमनुभवन्ती निशीथमनयम्।

 क्रमाधिरूढविश्रम्भा च तमहं कृतप्रश्नाया बन्धुसुन्दर्याः स्खदिग्विजयवृत्तान्तमावेदयन्तमुदधिवार्ताव्यतिकरे लब्धावसरमनुयुक्तवती--'आर्यपुत्र, तत्कालसंभृतमद्यापि नोपारमति मे भयम् । अतः पृच्छामि।तस्मिन्नवसरे ततः पातालसदृशादम्बुराशेः केन त्वमवतारितस्तीरः'इत्युक्तो मया कृतस्मितः सबीडमवदत्—'द्रविडराजतनये, त्वदीय-वदनेन्दुदर्शनगृहीतोद्यमेन केनाप्यदृष्टेन' इति । तमहमञ्जवं पुनः "आर्यपुत्र, सत्यमेवास्मद्विधजनाभ्युदयकालिणा पूर्वजन्मार्जितेन शुभकर्मणादृष्टेनोद्धृतस्त्वम्, तथापि परमार्थतः कथय । विस्मयो मे। स पुनरवदत्-'चन्द्रमुखि, परमार्थोऽप्यसावेव । शृणु निवेदयामि सागरप्रवेशालभृति यन्मे वृत्तम् । तदा तिरोमूतदर्शनायां त्वयि तीव्रविरहदुःखासहिष्णुतया निपतितोऽहमर्णवपयसि नूतनाम्भोधररनिनादधीराम् ।' 'अहो नृपकुमार, किमपि कमनीयदर्शनायास्तवाकृतेरतिविसहशोऽयं व्यवहारः । कथय किंनिमित्तमानिमित्त एवात्मानमुत्स्ऱुजता सविधवर्ती कैवर्तजनोऽयमर्णवावर्तमकराणाममीषामामिषत्वेन स्वया प्रकल्पितो बराकः । इदं चाकस्सादनुस्मरणमात्रेणापि प्रशमिताशेषजन्तुदुरितमखिलविश्वत्रितयविश्रुतमहिमा महावीरजिनवरप्रतिमया प्रसाधितस्य सिद्धायतनमैत्र्या पवित्रितं तीर्थमन्यतीर्थिकपरिगृहीतैर-