पृष्ठम्:तिलकमञ्जरी.pdf/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२० काव्यमाला। नेकसत्त्वप्रलयहेतुभिः प्रपाततीर्थैः समीकृतम्' इति वाचमाकस्मिकीमशृणवम् । 'क एष मामुपालमते' इति चिन्तयन्नवोन्मीलितलोचनो न किंचिदन्तिकस्थमीक्षितवान् । केवलं तथैवात्मना समाक्रान्तपूर्वे पर्वतोपकण्ठावासितस्य निजसैन्यस्य नेदीयसि नदाधिराजोचारतीरे तरन्ती तामेव निजनिजस्थानोपविष्टप्रहृष्टनिःशेषनाविकां नावमद्राक्षम् ।

 'केन वयमुदधिमध्यादुद्धताः, कथं चेयस्माभिरचिन्तितैव नौरिह प्राप्ता' इति तारकेण सह चिन्तयन्नन्तर्विस्मितो यावत्तिष्ठामि, तावदागत्य रात्रावदर्शनादनुभूततीव्रशोकेन परिवृतो राजलोकेन नीतश्च वीतगमनामिलापोऽपि प्रीतमनसा निवासम् ।

 तत्र चादत्तदर्शनः प्रधानलोकस्य शिथिलीकृतसकलपृथ्वीव्यापारः सर्वकालमेकान्तवर्ती प्रवर्तिताविरतशीतोपचारः परिचारकजनेन 'न जाने सा वराकी गता कामवस्थाम्' इति त्वां चिन्तयनिमेषमप्यनुपजातनिद्रो निशाः कतिचिदनयम् । एकदा तु प्रातरेव द्रष्टुमुपागतस्तदवस्थमवलोक्य तारकः सखेदं मामवादीत्-'कुमार, निष्पल्लवानि चन्दनमवनानि संजातानि । निःशेषितमृणाला नालशेषाः सरसीषु नलिनाकरा वर्तन्ते। कियन्तं कालमिह पर्वते कुर्वद्भिरफलं देहदाहप्रतीकारमुत्सृष्टपुरुषकारैरासितव्यम् । किं न चिन्त्यते कोऽपि तदवास्युपायः । किं च काचीनगरगमनाय गृखतेऽद्यापि नोद्यमः । किं विस्मृतं तधुवराजस्य यत्तदा समुद्रोदरे नौस्तव छद्मना त्वदर्थे कृतप्रार्थनस्य विज्ञाय मे भावममि मुखार्पितमेरनयनया 'भद्र, किमहं न शृणोमि, येन भूयो भूयस्तमेवार्थमावर्तयसि । सर्वमवधारितं ते वचनम् । अङ्गीकृतश्चायं नायकः, किं तु तिष्ठतु तावद्यावदह मिहस्खा खस्थानमुपगता काञ्चीमध्यमागतं महीप्याम्येनमिति यदुकं तया' इत्यभिहिते तेन किंचिदुच्छसितचेताः