पृष्ठम्:तिलकमञ्जरी.pdf/३४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

३३२ काव्यमाला।

 कथंचिदुपलब्धसंज्ञा च सत्वरमुत्थाय 'किमतः परं श्रोतव्यम्' इति चिन्तयित्वावधीरिततदारब्धवार्तापरिसमाप्तिर्निर्गता तपोवनात् ।

 गता चातिमात्रविरलतापसप्रचारवेलातटमवलोक्य च पुरस्तादतिचिरादृष्टमिष्टमिव बान्धवमम्बुराशिं शतमुखीभूतदुःखदाहा निदाधसरिदिव प्रथमजलधरासारवारिवरणबन्धेन महतापि प्रयलेन हेलागतं बाष्पवेगमपारयन्ती धारयितुमुन्मुक्तातितारकरुणपूत्कारा 'हा प्रसन्नमुख,हा सुरेखसर्वात्का(का)र, हा रूपकन्दर्प, हा लावण्यलवणार्णव, हा लोकलोचनसुधामर्ष, हा महाहवप्राप्तपौरुषप्रकर्ष, हा कीर्तिकुलनिकेतन,किमेकपद एव निस्नेहतां गतः । किं न पश्यसि मामस्थान एवं निर्वासितां पित्रा विसर्जितां मात्रा परिहृतां परिजनेनावीरितां बन्धुभिरेकाकिनीमदृष्टप्रवासां वनवासदुःखमनुभवन्ती किमागत्य नाथ,नाश्वासयसि । कदा त्वमीदृशो जातः । कश्च संप्रत्यवेक्षितो मत्पक्षपाती,यदाशया माध्यस्थमवलम्ब्य स्थितम् । किमत्र महुःखदुःखितास्ते बन्धुसुन्दरी, या समागत्य मत्कृते पुनरपि करिप्यति तव प्रार्थनाम् ।कथय किमर्थमेकपद एवाहमप्रिया जाता । किं कृतं मया ते विप्रियम् ,येन सकृदपि नालपसि । यदि च निसर्गनिष्ठुरस्तत्किमागत्य पाशोपद्रवादक्षिताहम् । किं तदैव नोपेक्षिता जीवितमुत्सृजन्ती। सांप्रतं दर्शयित्वा ममात्मानमावेद्य निःसामान्यमनुरागमपसृतो दर्शनपथात् ।आकाप्यकल्याणभागिनी तवाद्यापि न प्रत्येमि शत्रुसंपादितां विपदम्।अव्याफ्नविग्रहं जीवन्तमिव केनापि हेतुना भवन्तमुत्पश्यामि । यद्यपिसुराङ्गनासङ्गमस्पृहः पापकारिणीमपहाय मां दिव्यलोकमुपगतः,तथाप्येकवारमागत्य तेनैव प्राक्तनेन रूपेण दर्शयात्मानम् । अनव- १. निष्ठुरः