पृष्ठम्:तिलकमञ्जरी.pdf/३५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी।

फलकेनोद्वहन्ती घृतासिफलकामिः परिवृता, समन्ततः साधितमहाप्रभावविद्याविवृद्धपौरुषावलेपाभिरनेकशतसंख्यामिररक्षाधिकारनियुताभिरङ्गनाभिरासन्नचारिणा समारब्धसेवोचितचटुक्रियेण मुहुर्मार्गवर्तिनीर्वनलता विवर्तयता मुहुः श्वासपरिमलाकृष्टमलिपटलमुत्सारयता मुहुः कपोलतलललितमवतंसपल्लवमुल्लासयता मुहुर्नुपुरखनानुसारिणः सर:कलहंसकानुनासयता मुहुर्लममवनीरजश्चरणयोरुत्तरीयाश्चलेन प्रणुदता खेचरेन्द्रनारीजनेनानुगम्यमाना, तीरस्थितं तत्प्रासादरत्नमवलोकयितुमुचरात्सरस्तीरपुलिनादखिलदक्षिणश्रेणीपतेर्विद्याधरचक्रवर्तिनश्चक्रसेनस्य महिषी पत्रलेखाभिधाना पादचारेण तत्रैवागच्छत् । ऊर्ध्वस्थितैव च सा विलोक्य तदग्रतोभूताभिः 'इदं सुन्दरम् , इदं सुन्दरम्, इह दीयतां दृष्टिः, इह दीयतां दृष्टिः' इति ससंभ्रमामिः प्रकाश्यमानविभागं धानसहचरीभिरतिचिरमुत्पन्नविस्मया परिजनमपृच्छत्---'अपि नाम ज्ञायते कस्येदम्' इति ।

 अथ समीपस्थिता सकलकोशागारसंरक्षणाधिकारनियुक्ता मुक्तावली नाम पालिका ब्याहरत्---'देवि, तत्त्वतो न जायते । युक्त्या तु निश्चितमिदम् । यस्य मार्गणाय पूर्वेद्युरितः सुवेलपर्वतं गतो गन्धर्वका, तदेव तेनेदं हारिचन्दनं विमानमानीतम् । यतोऽत्र यस्खयुगलमाभरणं च भर्तृदारिकया गच्छतस्तस्य प्रसादीकृतं तदिदमविकलमास्ते' इत्युदीर्य तूष्णीकाभवत् । सा तु तन्निपुणमवलोक्य प्रत्यभिज्ञाय सशोकेन निश्चललोचना स्थित्वा मुहूर्तमवनतमुखी सखेदमवदत्-'भद्रे, यदाह भवती तथैव सर्वम् । केवलमिदं न ज्ञायते स गन्धर्वको वराकः कामवस्त्रां प्राप्तः' इत्यभिदधाना समागत्य चित्रलेखायाः संनिधानभवत् । सकौतुकानुरागमर्पितेक्षणा च मयि स्थित्वा मुहर्तमीपद्विव-