पृष्ठम्:तिलकमञ्जरी.pdf/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

र्तितमुखी 'सखि, केयमत्र भवती, क वा जातपरिचया भवत्या' इति नीतामपृच्छत् । सा तु पृष्टमात्रैव तया समुत्सृष्टदीर्घनिश्वासा अवर्तमानमनवरतमक्ष्णोरभीक्ष्णमुत्तरीयाञ्चलेन प्रणुदती बाष्पवेगं सोद्वेगमवदत्---'देवि, किमहमावेदयामि मन्दभाग्या । दैवमत्र प्रष्टव्यम् ,येनासौ संभ्रमकारिणा निरस्तकरुणेन देहमात्रेणैव भिन्ना तवापि प्राविषयतां नीता । प्रापिता चेयमुपजातपरिचयलोकशोकोद्रेकहेतुमेकपद एवातिकष्टमीदृशमवस्थाविशेषम् । शृणु कृतावधाना । श्रावयामि येयं यत्र चानया सह पूर्वमुपजातः परिचयः । इदं हि तावद्विदितमेव ।प्रियंवदाया यथा सहोदरी रूपसौन्दर्यखण्डिताखिलखेचरीचक्रचारुत्व- गर्वा गन्धर्वदत्ता नाम मे स्वसा यवीयस्यासीत् , सा दशवर्षदेशीया सुवेलपर्वते पितुर्ग्रहमधिवसन्ती वैतादयगिरिनिवासिना मातामहेन राजकन्योचिताभिः सहकलाभिरकाल एव परिणतं लास्यविद्यारहस्यमवलोकयितुमुत्पन्नकौतुकेनादरानीता खनगरी वैजयन्तीम् । तस्यां पुरि कदाचिदभ्यमित्रीणे राजनि रजन्यामुपेत्य सारकरितुरगपत्तिपरिवृत्तेन जितशत्रुनाना शत्रुसामन्तेन पातितः प्रतिभवनमुद्भूतमीतवनिताजना कन्दो महानवस्कन्दः । तेन निर्दयव्यापारितनिशितशस्त्रदुर्वारेण सर्वतः प्रसारता विरचितव्यूहवीरपुरुषदुःखप्रवेशेन क्षणादक्रियत कांदिशीको नगरलोकः।

 ततः स्तोककालसूत्रितायोधनेषु निधनमुपगतेषु प्रधानपुरुषेषु, प्रहारविकलकाययष्टिषु यमातिथिभूतेषु यामिकेषु, अदृष्टरिपुपराजयोप: पत्तिष्वपस्तेषु पत्तिषु, गृह्यमाणमन्दुरावाजिनि विदार्यमाणदुर्मदद्विप विज्ञप्यमानकोशकलशे व्याकुलीभूते समन्ताद्राजकुले, समरकेलिन्मान्तर्वसि(शि)कः प्रविश्य कन्यान्तःपुरमुपजातकरुणस्वासतरलित-