पृष्ठम्:तिलकमञ्जरी.pdf/३७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। चैनाम्-'अद्य निरवद्यशास्त्रशस्त्रविद्यापारदृश्वा किमपि कुशलः कलासु सकलभारतवर्षभूभुजो मत्पितुरपि माननीयाज्ञस्य राज्ञो मेघवाहनस्य प्रथमसूनुरवसानभूमिः समस्ताभिरामवस्तुविस्तरकथायाः कथंचिदपि दूरदेशान्तरादागतः प्रातरेव देवताधाग्नि हरिवाहनो नाम्ना कुमारो मया दृष्टः । स च निसर्गखच्छहृदयो मदीयवचनानुरोधेन स्थितोऽत्रैव दिवसमद्यतनम् । आनीतं च तं निजावासमनुबन्धेन परमबन्धुकल्पमुत्स्सृज्य युज्यते न यातुमिति चिन्तयन्ती नाहमायाता । तेन निःस्नेहतादोषो मयि न संभावनीयः' इति ।

 गतायां च तस्यां कृतप्रस्तावा मलयसुन्दरी शैशवानुभूतानणवान्तरद्वीपजातानृष्याश्रमनिवासवृत्तानन्यांश्च चिरंतनानात्मीयसुखदुःखवृत्तान्तानावेदयन्सी स्थित्वा सुचिरमुचितसमये मगमपीठादवतीर्य तामेव मध्यमभूमिकामध्यभाजमात्मीयशयनशालामव्रजत् । अहं तु शशिकान्तमण्डपिकायां पुरस्तादेव विस्तृतायतमाश्रित्य मणिशिलापट्टमास्तीर्णमभ्यर्णनिहितकोमलकल्पपादपांशुकप्रावारमभिनवं पल्लवशयनमगमम् ।

 तत्र च विशालवेदिकापृष्ठबन्धौ सुगन्धिस्रग्दामकल्पितोपधाने निषण्णः शयनसंनिधानोपविष्टया निष्कृष्टरत्नोमिकाधिकसुखस्पर्शकरतलयुगलया प्रतिकलपरामर्शचलितचञ्चलकलाचिकाञ्चनवलयमालया मृधमानचरणद्वयः शनैः शनैः संवाहनकर्मचतुरया चतुरिकया तदुपवर्णितमनुस्मृत्य तिलकमञ्जरी मन्मथोन्मादमधिकमात्मन्युपजातबहुमानो मुहुर्मुहुश्चिन्तितवान्-~-'अरे हृदय, किमर्थमद्यापि ताम्यसि । किंच न मुसि चिरंतनविषादम् । उद्वह परं परितोषमघुना । यस्माश्चित्रपटगतेनापि रूपेण ताइशी पुरा विकलता नीतमसि, यामभिलष्य विहितानेकसंकल्पेन नितान्तमल्पापि कल्पशतायमाना शयनतलगतेन