पृष्ठम्:तिलकमञ्जरी.pdf/३९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। ३७५ वितीर्य लेख मया खस्थविरं प्रति प्रेषितो यः स नूनमयमायातः' इति विचिन्त्य विज्ञापयितुमागताम् 'मन्दुरे, गच्छ. गच्छ । प्रवेशय' इति साग्रहस्तमवोचम् । अथ प्रस्थाय तत्क्षणमेव सा प्रश्रयोपरचिताञ्जलि 'पश्य गुणवन् , इदानीमेव निर्वर्तिताहारं कुमारम्' इत्यभिहितवती । स तु तदीयवचनानन्तरमेव सत्वरः स्तम्भशिखरादवतीर्य तिर्यक्प्रचलितः सरलितसुरेन्द्रचापरेखाचारुणा वसंचारेण सीमन्तयन्नन्तरिक्षमीक्ष्यमाणः कुतूहलाकूततरलितोत्तानतारकामिरन्तमिव कुमारीभिरव्याकुलः प्रविश्य पूर्वदृष्ट इव तत्राहारमण्डपे संवृताग्रतुण्डसंदंशसंग्रहीतमुत्सृज्य मञ्चरणयोः पुरस्तादजर्जरं भूर्जलेखमावर्जितशिराः किंचिदुच्चोचारिताक्षरेण खरेण जयशब्दमकरोत् ।

 दृष्ट्वा च तं तथागत्य कृतदर्शनमकारण एव साधितानन्यसाध्यकरणीयमायताध्वश्रमक्षामनिःसहशरीरमझिपीठोपकण्ठमुवि सविनयोपविष्टमुपजातपरमोपरोधः स्थित्वा क्षणमबोचम्-'महात्मन् , सर्वदा स्वाधीनवनफलाहारनीरं निरीहमेकान्ततो विशिष्टानपानदानेष्वघटमानमाल्यवस्त्रप्रसाधनाभरणवेषग्रहणमेवंविधं विधिवशाद्विहङ्गरूपमापन्नस्य करुणानिधेः कस्यापि गुह्यकस्य गन्धर्वस्य विद्याघरस्य वा भवतः प्रह्लीकतोऽपि बलवता लेहेन मादृशः किं करोत्यभ्यागतातिथ्यम् । तथाप्युतिष्ठ । कुरु कियन्तमपि मे मनःपरितोषम्' इति निगद्य युगपत्करयुगोचम्भिताङ्गं तमुत्सङ्गमनयम् । कृतकुशलसंप्रभे च स्पृशति मन्दमन्दमामीलिताक्षस्य नवशिरीषपक्ष्मसुकुमारतनूरुहाणि तस्याङ्गानि संजातपरमप्रमोदे मयि समागत्य कुन्तला नाम तिलकमञ्जर्या:

शयनपाली सप्रश्रयमवोचत्-'कुमार, देवी विज्ञापयति-अद्य मे


१. सदाग्रहस्तेन सर्वाङ्गुलीप्रान्तचलनेन वर्तते इति क्रियाविशेषणम्,