पृष्ठम्:तिलकमञ्जरी.pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ काव्यमाला। विलोकय, चिरं विचारय च चेतसा । यदि संभवन्ति कतिचिदिह पूर्वसूचिता गुणाः, प्रीयते वा चक्षुरुत्तमालक्षणविधेर्विचक्षणस्य, तक किंचिदन्यान्वेषणेन ।' स पुनरब्रवीत्—'नृपवरिष्ठ, सुष्टु शुभलक्षणम् । सुठु चक्षुष्यम् । किं विलोक्यते किंवा विचार्यतेऽस्य जात्यस्येव जातरूपस्य रूपशोमासौभाग्यम् । भाग्यवानहम्, यस्थ प्रार्थनामन्तरेण समुपस्थितमिदम् ।' इति व्याहृत्य वामकरतलवर्तिनः कपालस्य कर्णवौं निर्दयावृत्तिकषणप्रकीर्णवहिस्फारविस्फुरस्फुलिङ्गवातामुत्पाव- मेघलेखामिव विमुक्तघनरुधिरबिन्दुवर्षाममर्षचक्रीकृतकृतान्तकोटिवद्वि- कराला कालायसकर्तिकां निजघर्ष । हर्षोत्तालकृततुमुलकिलिकिलारवश्व साटोपमेत्य विकटपातिभिः पदैरनतिनिकटमवनमितपूर्वकायः प्रकोष्ठ- चलितपन्नगप्रतिसरेण समुपनिन्ये सन्येतरकरेण । क्षोणीपतिरप्यजात- संक्षोभः स्तिमितबद्धलक्ष्येण चक्षुषा चिरमवेक्ष्य तां सधीरमुवाच- क्षपाचरेन्द्र, दिव्यमायुधमिदं नार्हति करस्पर्शमस्मद्विधानाम् । विधानेन महता धार्यमेतन्न यथाकथंचित् । अतस्तिष्ठतु तथैव हस्ते । त्वत्प्रयो- जनमसावेव मे सर्वदा सविषवर्ती निवर्तयिष्यति निसर्गनिष्कृपः कृपाणः। इति वदन्नेव सविधवर्तिनः कुशस्त्रस्तरस्य शिरसि तत्क्षणमेव निक्षिप्तमाक्षेपदूरविक्षिप्ताक्षवलयेन दक्षिणपाणिना जग्राह कृपाणम् । मामेवांशुभिषविमुक्तपद्धविषच्छटामीषणं च विचकर्ष संकर्षणानुज इव कलिन्दतनयातरक्षात्कालियम् , इन्द्रनीलखण्डखचिताचर्मकोशात् । निष्ठुरकराष्टतर्जनीकोटिमार्जितातितीक्ष्णश्लक्ष्णधारे च तत्र प्रसन्न- धवलायतामायुधार्चिविषयेव विकचविचकिलसम्बन्धुरां बबन्ध दृष्टिम् । आबद्धपरिकरश्च कृत्वा देवतायाः प्रणाममूलधृतनिःकम्पजकेन वामाझिणा तिर्यगावर्जितेन च दक्षिणे धूमदण्डानुकारिणं कृपाण- मुसितकृपः स्कन्धपीठे न्यपातयत् ।