पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयोऽनुवाक:

प्राणमये श्लोक:

प्राणं देवा अनु प्राणन्ति । मनुष्या पुत्राश्च ये।

प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यते ।

सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते ।

प्राणो हि भूतानामायुः।

तस्मात्सर्वायुषमुच्यत इति ।

'शिर: इति कल्प्यते, वचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानो व्यानवृतिर्दक्षिणः पक्षः। अपान उत्तरः पक्षः । आकाश आत्मा, य आकाशस्थो वृत्तिविशेषः समानाख्यः,स आत्मेवाऽऽत्माप्राणवृत्त्यधिकारात्, मध्यस्थत्वादितराः पर्यन्ता वृत्तीरपेक्ष्याऽऽत्मा -“मध्यं ह्येषामङ्गानामात्मा” इतिश्रुतिप्रसिद्धम् मध्यस्थस्याऽऽत्मत्वम् । पृथिवी पुच्छं प्रतिष्ठा ।'पृथिवी' इति पृथिवीदेवताऽध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । “सैषां पुरुषस्यापानमवष्टभ्य" इति हि श्रुत्यन्तरम् । अन्यथोदानवृत्त्योर्ध्वगमनं, गुरुत्वात्पतनं वा स्याच्छरीरस्य, तस्मात्पृथिवी देवतां पुच्छं प्रतिष्ठा प्राणमयस्याऽऽत्मनः। तत् तस्मिन्नेवार्थं प्राणमयात्मविषय एष श्लोको भवति।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः


कृतौ तैत्तिरीयोपनिषदि ब्रह्म-आनन्द-वल्लीभाष्ये द्वितीयोऽनुवाकः ॥ २ ॥


 प्राणं देवा अनु प्राणन्ति-(२) 'देवा’ अन्यायः प्राणं’ वाय्वात्मानं-प्राणनश- क्तिमन्तम् ‘अनु’ तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति–प्राणनक्रियया क्रियावन्तो भवन्ति । (२) अध्यात्माधिकारात् ‘देवा’ इन्द्रियाणि ‘प्राणमनु प्राण


इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दशनविरचिते तैत्तिरीयोपनिषच्छांकर
भाष्यटिप्पणे ब्रह्म-आनन्दवल्यां द्वितीयोऽनुवाकः ॥ २॥


पूर्वपूर्वकोशस्योत्तरोत्तरः कोश एवऽऽत्मांत व्याख्यातमापातदर्शनेन, तदसव , आत्मशय्द


 (१) ऐ. आ. २. ३. ५. (२) प्र. ज. ३. ८. “पृथिव्यां या देवता सैषा*० इत्यादि वचनम् । “ पुथिवीदेवता पुच्छं सैषेति श्रुतिदर्शनात् । असोराध्यात्मिकस्यैषा स्थितिहेतुः प्रकीर्तिता ॥“ वार्तिके. २. ३. ७६ । “पृथिवीशब्देनावशिष्ट उदानवायुरुपलक्ष्यते। मुख्यार्थस्वीकारे हि प्रणमयकोशाधिकारो बाध्येत”– इति सा. भाष्ये व्याख्यातम् । विरोधाभासोऽयं पृथिवीन ( पृथिवीदेवताक) उदानोऽयं प्रतिष्ठा पुच्छ मीरितः ” इति आत्मपुराणोक्तरीत्या शक्यः परिहर्तुम् । ८