पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ तृतीयोऽनुवाकः ]]
७३
मनोमयकोशः


मनोवृतित्वे मन्त्राणां, वृत्तिरेवाऽऽवर्त्त्यते, इति मानसो जप उपपद्यते-अन्यथाऽविषयत्वान्मन्त्रो नऽऽवर्तयितुं शक्यो घटादिवत्, इति मानसो जपो नोपपद्यते; मन्त्रावृत्तिश्च उद्यते बहुशः कर्मसु ।

 अक्षरविषयस्मृत्यावृत्त्या मन्त्रवृत्तिः स्यादिति चेत्, न; मुख्यार्थासंभवात् । "त्रिः प्रथमामन्वाह त्रिरुत्तमा:" इति ऋगावृतिः श्रूयते। तत्रर्चोऽविषयत्वे तद्विषयस्मृत्यावृत्या मन्त्रावृतौ च क्रियमाणायां "त्रिःप्रथमामन्वाह" इति ऋगावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात् ।

चिदामत्वाद्वेदस्य नित्यत्वम्  तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं, मनोवृत्तिनिष्ठमात्मचैतन्यंम् -अनादिनिधनं, यजु:शब्दवाच्यम्, आत्मविज्ञानं-मन्त्रा इति । एवं च नित्यत्वोपपत्तिर्वेदानाम्, अन्यथाविषयत्वे रूपादिवदनित्यत्वं च स्यात्; नैतद्युक्तम्-"सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा” इति च श्रुतिर्नित्यात्मनैकत्वं ब्रुवन्ती, ऋगादीनां नित्यत्वे, समञ्जसा स्यात्; "ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदु:" इति च मन्त्रवर्णः ।


वर्ण यजुर्वेदतयाऽध्येतव्या इत्येवं संकल्परूपा ग्रावेत्यर्थः । श्रुत्यनुग्राहिकां युक्तिमप्याह- एवं चेति । अन्यथेति । शब्दानां घटविद्धद्रव्यत्वे, मनोविषयत्वासंभवाव् मनसो बाऽर्थेऽस्वातन्त्र्यात्, मानसो जपो न स्यादित्यर्थः । इतश्च मनोवृत्तित्वं मन्त्राणां वाच्यमि त्याह—मन्श्रावृतिश्चेति । शब्दानां घटादिवद्धावद्रव्यत्वे, मन्त्राण घटादिर्वेदावृत्तिनप्पं द्यते, क्रियैव यावयते ।

 आवृत्तिसिद्धयनुपपया क्रियात्वं वाच्यमित्युक्तं, तत्रान्यथाऽप्युपपत्तिमाशङ्कते-अक्षरवि- षयेति । मन्त्रेभ्यः स्मृतेरन्यत्वादन्यऽऽवृत्तिगौंणी प्रसज्यते, अतो नान्यथाऽप्युपपत्तिरित्युक्त म् । एतत्स्फुटयति-त्रिः प्रथमामित्यादिना । सामिधेन्यः संमिधो यदाऽध्वर्युणा ह्यन्ते, तदा “प्रं वो वाजा अभिद्यवः” इत्यष्टादशचं सूक्तं होता शंसति, तासां चर्चा मध्ये प्रथमार्च सूक्तस्यान्त्यां चर्च होता त्रिरब्रूयादिश्यादृत्तिः भूयत इत्यर्थः ।

 मन्त्राणां मनोवृत्तित्वमुक् Pवा-मनोवृत्तीनां सदा चियाप्तत्वेनैव सिद्धः-चिदात्मतामाह


 (१) है. सं. २. ५. ७. १; शतः ब्रा. १. ३. २. ६; ऐ. ब्रा. १. ३. २, ५. इत्यादौ । (२) तें. आ. ३. ११. १. (३) अ. सं. १. १६४. ३९; अ. सं. ९. १०. १८गो. भा. १. १. २२; है. ब्रा. ३. १०. ९.४; है. आ. २. ११. १; श्वे. ड. ४. ८; ढं. उ. अ. ४. २. (४) सामिधेन्य ऋचो यद्यपि मूले (तै. ब्रा. ३. ५. २. १-१२. ) द्वादश पठिताः, तथाप्यन्तेयोः पुरुषभेदेन विकल्पितत्वादेकादशैव । सम्यगिध्यते ज्वाल्यतेऽनियमितभिस्ताः सामिधेन्यः । तभा चोक्तम्-ऋक्सामिधेनं धाय्या च या स्याद