पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२१

पुटपरिशीलयितुं काचित् समस्या अस्ति

अथ षष्ठोऽनुवाकः

ब्रह्मपुच्छवाक्ये ब्रह्मणः स्वप्रधानत्वे निगमनश्लोक:

असन्नेव स भवति । असद्ब्रह्मोति वेद

चेत् । अस्ति ब्रह्मोति चेद्वेद । सन्तमेनं

ततो विदुरिति ।

असन्नेवासत्सम एव, यथाऽसन्नपुरुषार्थसंबन्धी, एवं सभवति-अपुरुषार्थ- संबन्धी । कोऽसौ ? योऽसदविद्यमानं ब्रह्मेति वेद विजानाति चेद्यदि । तद्विपर्ययेण यत्सर्वविकल्पास्पदं, सर्वप्रवृत्तिबीजं, सर्वविशेषप्रत्यस्तमितमापि, अस्ति तब्रह्मेति वेद चेत्।   कुतः पुनराशङ्का तन्नास्तित्वे ? व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः। व्यवहार- विषये हि वाचारम्भणमात्रेऽस्तित्वभाविता वुद्धिस्तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते-यथा घटादिर्व्यवहारविषयतयोपपन्नः सन्,तद्विपरीतोऽसन्निति प्रसिद्धम्; एवं तत्सामान्यादिहापि स्याद्ब्रह्मणो नास्तित्वं प्रत्याशङ्का । तस्मादुच्यते–'अस्ति ब्रह्मेति चेद्वेद ' इति   किं पुनः स्यात्तदस्तीति विजानतः ? तदाह--सन्तं विद्यमानं ब्रह्मस्वरूपेण परमार्थसदात्मापन्नमेनमेवंविदं विदुर्ब्रह्मविदः । ततस्तस्मादस्तित्ववेदनात्सोऽन्येषां ब्रह्मवद्विशेयो भवतीत्यर्थः।   अथवा यो नास्ति ब्रह्मेति मन्यते, स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्था- लक्षणस्याश्रद्दधानतया नास्तित्वं प्रतिपद्यते, ब्रह्मप्रतिपत्त्यर्थत्वात्तस्य ।अतो नास्तिकः सः 'असन्' असाधुरुच्यते लोके । तद्विपरीतः सन्, यः 'अस्ति ब्रह्मति चेद्वेद स तद्ब्रह्मप्रतिपत्तिहेतुं सन्मार्गम् वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात्, ततस्तस्मात्सन्तं साधुमार्गस्थमेनं विदुः साधवः । तस्मादस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः ।


आनन्दमयकोशेऽस्मिन् पन्चमावयवः श्रुतः । ब्रह्मशब्देन तद्ब्रह्म स्वात्मानन्द इतीक्ष्यताम् ॥ ८४ ॥ उपासनाच्चित्तशुद्धौ ब्रह्मतत्त्वमवेक्षते । गुहाहितब्रह्मबोधात्सर्वकामाप्तिरीरिता ॥ ८५ ।। गुहाहितं ब्रह्म यत्तत्सत्यं ज्ञानमिति श्रुतम् । तस्य ज्ञानस्य दृश्यास्ते कोशाः सर्वे जगत्तथा ॥ ८६ ॥ -तैत्तिरीयकविद्याप्रकाश (१) "अस्मिंश्च श्लोकेऽननुकृष्यानन्दमयं, ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते ।'ब्रहा पुच्छं-प्रतिष्ठा' इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति । न चानन्दमयस्यात्मनो भावाभावशका युक्ता, प्रियमो- दादिविशेषस्थानन्दमयस्य सर्वलोकप्रसिद्धत्वात् " ब्र.सू. भाष्ये १. १० १९.

! ।