पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मं स्रष्टृ यदि॒दं कंच॑ । तत्सृष्ट्वा । तदे॒वानु॒प्रावि॑िशत् । 'रोदात्मेत्यर्थः । स एवमालोच्य तपस्तप्त्वा प्राणिकर्मादिनिमित्तानुरूपमिदं सर्वे जगद्देशतः, कालतः, नाम्ना, रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थै- रनुभूयमानमसृजत सृष्टवान् । ६ षष्टोऽनुवाक: ] .८९. यदिदं किंच यत्किंचेदमविशिष्टम्, तदिदं जगत्सृष्ट्वा किमकरोदिति ? उच्य- ते- तदेव सृष्टं जगदनुप्राविशदिति । विषयविषयिभावो वा- - नियामकगवेषणात् । न च स्वभाव एव संबन्धः - द्वयोः स्वभा- · वयोः संबन्धत्वेनैवोपक्षये संबन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव संबन्धि- त्वम् - आत्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकत्वे च मिथ्याव्यवहारा- पाताठ्, अनिर्वचनीयवाद एव पर्यंवस्यतीति भावः । यस्मादात्मातिरिक्तं वस्तु न संभाव्यते, तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह–अत इति । तर्हि ब्रह्मणः सप्रपञ्चताप्र- सङ्ग इति न वाध्यमित्याह -- न ब्रह्मेति । न ब्रह्म तदात्मकम् – अजडत्वात्, तत्परिहारे- णापि सिद्धिसंभवादित्यर्थः । कथं तर्हि ते ब्रह्मात्मके ? तत्राऽऽह — ते तदिति ! स्वप्नावबुद्ध- नभोभक्षणवदारोपितस्यानुभवप्रत्याख्यानेन सिद्धयसंभवात्, अनुभाव्ये नामरूपे अनुभवा- 27 । (१) तुलय — “ अस्य जगतो नामरूपाभ्यां व्याकृतस्यानेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्त- क्रियाफलाश्रयस्य मनसाप्यचिन्त्यरंचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद्ब्रह्म —त्र. सू. १.१. २. भाष्ये । कार्यप्रपञ्च केचित्कथंचित् स्वप्रक्रियानुसारेण विभजन्ति । वेदान्तिनस्तु " त्र्यं वा इदं नाम, रूपं, कर्म ” ( बृ. उ. १. ६. १. ); “ नामरूपे व्याकरवाणि " (छां. उ. ६. ३.२.) इति श्रुतिद्वयमाश्रित्य त्रैविध्यं, द्वैविध्यं वाऽङ्गीकुर्वन्ति । चेतनो हि बुद्धावालिख्य नामरूपे, घट इति नाम्ना, रूपेण च कंम्बुप्रीवादिना, बाह्यं घटं निष्पादयति । एवमेव मूलकारणमपि नामरूपाभ्यां स्वबुद्धावाविर्भूतमेव सर्वे पश्चाव्यनक्तीति नामरूपाभ्यामित्थं भूतं व्याकृतमित्युच्यते । केचित्कर्तारो भवन्ति — यथा सूदर्लिंगादयः, न भोकारः; केचित्त भोक्तारः— यथा श्रद्धवैश्वानरीयेष्टयादिषु पितापुत्रादयः, न कर्तारः । केचित्खलु प्रतिनियत- देशोत्पादाः – यथा कृष्णमृगादयः; केचित्प्रतिनियतकालोत्पादाः —–—यथा कोकिलारवादयः; केचित्प्रति- नियतनिमित्ताः - यथा नवाम्बुदध्वानादिनिमित्ता बलाकागर्भादयः; केचित्प्रतिनियतक्रियाः – यथा ब्राह्मणानां याजनादयः, नेतरेषाम् । एवं प्रतिनियतफलाः -- यथा केचित्सुखिनः, केचिद्दुःखिनः; एवं य एंव सुखि- नस्त एव्र कदाचिद्दुःखिनः । सर्वमेतदाकस्मिकापरनान्नि यादृच्छिकत्वे च, स्वाभाविकत्वे च, असर्वशक्तिकर्तृकत्वे च न घटते | नाम्ना रूपेण चेति ' इत्थंभावे तृतीया ' | चितप्रकाशस्य च स्वस्यार्थस्य च विषयविषंयिभावादिलक्षणो यः संबन्धः, तस्मादपि चेत्यप्रपञ्चस्यावभासो न युक्तः । तादृशस्य संवन्धस्यै- चानिरूपणात, विषयविषयिभावलक्षणसंबन्धस्य संबन्धान्तरमूलत्वात् तदनङ्गीकारेऽस्य ज्ञानस्यायमेव - विषय इति नियमानुपपत्तेः, अवश्यं मूलभूतः संबन्धो वक्तव्यः । स च संयोगसमवायतादात्म्यादिलक्षणः । तथा च ज्ञानार्थयोस्तादृशः संबन्धो दुर्निरूप इति विषयविषयिभावो न युक्त इत्यर्थः । एवं च “ सत्यं ज्ञानम- नन्तं ब्रह्म ” (२.१.) इत्यादिश्रुतेस्त्वनाद्यनन्ता ब्रह्मस्वरूपभूता स्वप्रकाशा या चित् तस्यामना विद्यावशा- " "}