पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सप्तमोऽनुवाकः ] अभेददर्शिनो ब्रह्मप्राप्तिः य॒दा ह्ये॑वैष एतस्मिंदरमन्तरं कुरुते । अथ तस्य भ॑यं भवति । तत्त्वेव भयं विदुषोऽमन्वान॒स्य । तदप्येष श्लोकोभवति । . कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्म आनन्द - वल्ल्यां सप्तमोऽनुवाकः ॥ ७ ॥ ९९ इति आश्रयः, न निलयनम् - अनिलयनम् अनाधारं, तस्मिन्नेतस्मिन्नदृश्येऽनात्म्ये- saeक्तेsलियने सर्वकार्यधर्मविलक्षणे ब्रह्मणीति वाक्यार्थः । अभयमिति क्रियाविशेषण | अभयामिति वा लिङ्गान्तरं परिणम्यते । प्रतिष्ठां स्थिति- मात्मभावं विन्दते लभते । अथ तदा स तस्मिन्नानात्वस्य भयहेतोरविद्याकृ- तस्यादर्शनाभयं गतो भवति । स्वरूपप्रतिष्ठो ह्यसौ यदा भवति, तदा नान्यत्पश्यति, नान्यच्छृणोति नान्यविति। अन्यस्य ह्यन्यतो भयं भवति, नाऽऽत्मन एवाऽऽत्मनो भयं युक्तम्; तस्मादात्मैवाऽऽत्मनोऽभय- कारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते, सत्सु भयहेतुषुः तच्चायुक्त मसति भयत्राणे ब्रह्मणि । तस्मात्तेषामभयदर्शनादस्ति तद्भयकारणं ब्रह्मेति । कदाऽसावभयं गतो भवति साधकः ? यदा नान्यत्पश्यति, आत्मनि चान्तरं - भेदं न कुरुते, तदाऽभयं गतो भवतीत्यभिप्रायः । भेददर्शनस्य यदा पुनरविद्यावस्थायां हि यस्मादेषोऽविद्यावानविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रवत्पश्यति; आत्मनि चैतस्मिन् ब्रह्मणि उदपि, अरमल्पमप्यन्तरं छिद्रं भेददर्शनं कुरुते- भयकारणत्वम् 'भेददर्शनमेव हि' भयकारणम् – अल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्माद्भे- ददर्शनाद्धेतोस्तस्य भेददर्शिन आत्मनो भयं भवति । तस्मादात्मैवाऽऽत्मनो भयकारणमविदुषः । तदेतदाह — (१) तद्ब्रह्म तु एव भयं भेददर्शिनो विदुष ईश्वरोऽन्यो मत्तः, भेददर्शिनो विदुषो अहमन्यः संसारीत्येवंविदुषः, ( २ ) भेददृष्टमीश्वराख्यं तदेव ब्रह्म भयम् ब्रह्माल्पमप्यन्तरं कुर्वतो भयं भवत्येकत्वेना मन्वानस्य | तस्मा- ( १ ) ह्यन्तरकरण° – पाठ : ( २ ) आत्मैकत्वेन ब्रह्मामन्वानस्य, विद्यान्तरयुक्तस्यापि ब्रह्मतत्त्वज्ञानरहि- तस्य । विदुषो मन्वानस्य, विदुषोऽमन्वानस्येति वा पदयोजना | प्रथमपक्षे विदुषः प्रत्यगात्मनः सकाशादी - षन्मात्रेणापि भिन्नं ब्रह्मेति पश्यतः संमोहवशवर्तिनो मोहादात्मैव भयं भवतीत्यर्थः । -