पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 अथ द्वितीयोऽनुवाकः ( ब्रह्मविज्ञाने प्रथमपर्यायः ) अन्नस्य ब्रह्मत्वम् अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अन्नाद्ध्यैव खल्व- मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अनं॒ प्रय॑न्त्य॒भिस॑वि॑श॒न्तीति॑ । पत्तौ द्वारं, लक्षणं च ' यतो वा इमानि ' इत्यायुक्तवान्, सावशेषं हि तत्- साक्षाद्ब्रह्मणोऽनिर्देशात्; अन्यथा हि स्वरूपेणैव ब्रह्म निर्देष्टव्यं जिज्ञासवे पुत्राय - इदमित्थंरूपं ब्रह्म — इति । न चैवं निरदिशत् । किं तर्हि ? साव- शेष मेवोकवा- | अतोऽवगम्यते नूनं साधनान्तरमप्यपेक्षते पिता ब्रह्मविज्ञानं प्रतीति । तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात्, – सर्वेषां हि नियतसा- ध्यविषयाणां साधनानां तप एव साधकतमं साधनमिति हि प्रसिद्धं लोके । तस्मात्पित्राऽनुपदिष्टमपि ब्रह्मविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः । तच्च तपो बाह्यान्तःकरणसमाधानं - तद्वारकत्वाद्ब्रह्मप्रतिपत्तेः । 'मनसश्चेन्द्रियाणां च ौकाम्यं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥” इति स्मृतेः । 66 स च तपस्तप्त्वा -- इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि भृगुवल्लीभाष्ये प्रथमोऽनुवाकः ॥ १ ॥ अनं ब्रह्मेति व्यजानाद्विज्ञातवान् । तद्धि यथोक्तलक्षणोपेतम् । कथम् ? “अन्नाद्धचेव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रय- न्त्यभिसंविशन्तीति”–तस्मायुक्तमन्नस्य ब्रह्मत्वमित्यभिप्रायः । ब्रह्मणो लक्षणमुक्तवानित्यर्थः । सावशेषोक्तेरिति । पदार्थोपलक्षणस्यैवाभिधानात्, अखण्ड- वाक्यार्थस्याप्रतिपादनात्, पदार्थभेदज्ञानाच्च पुरुषार्थासंभवात्,' उदरमन्तरं कुरुते इति निन्दितत्वात् ; अतो वाक्यार्थावगतिपर्यन्तं तात्पर्येण लक्ष्यपदार्थविचारणमावृत्त्याऽनु- ठितवानित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दशिष्यानन्दज्ञानविरचिते तैत्तिरीयोपनिष- च्छांकरभाष्यटिप्पणे भृगुवल्लयां प्रथमोऽनुवाकः ॥ १ ॥ ... ( १ ) मोक्षधर्मे २५०.४; महा. भा. ३.२६०.२५.