पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमोऽनुवाकः न कंचन वसतौ प्रत्यचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बहनं प्राप्नुयात् । अराध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतौन गुद्धम् । मुखतोऽस्मा अन्नध्यते । एतद्वै मध्यतराद्धम् । मध्यतोऽस्मा अन्न ९ राध्यते । एतद्वा अन्ततो॑ऽन्न रा॒द्धम् । अन्ततोऽस्मा अन्न राध्यते ( १ ) । य एवं वेद । तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कंचन कंचिदपि न प्रत्याचक्षीत, वसत्यर्थमागतं न निवारयेदित्यर्थः । वासे चदन्ते, अवश्यं ह्यशनं दातव्यम्; तस्माद्यया कया च विधया येन केन च प्रकारेण बदन्नं प्राप्नुया- तू बन्नसंग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसोऽभ्यागतायान्नार्थिने- Sराधि संसिद्धमस्मा अन्नमित्याचक्षते, न ' नास्ति' इति प्रत्याख्यानं कुर्वन्ति, 'तस्माञ्च हेतोः बह्वन्नं प्राप्नुयात् ' इति पूर्वेण संबन्धः | अपि चान्नदानस्य माहात्म्यमुच्यते । यथा यत्कालं प्रयच्छत्यन्नं, तथा तत्कालमेव प्रत्युपनमते । कथमिति १ तदेतदाह - एतद्वा अनं मुखतो मुख्ये प्रथमे वयसि मुख्यया वा वृत्त्या - पूजापुरःस- रमभ्यागतायान्नार्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः । तस्य किं फलं स्यादिति ? उच्यते-मुखतः पूर्वे वयसि, मुख्यया वा वृत्त्याऽस्मा अन्नदायाः राध्यते यथादत्तमुपतिष्ठत इत्यर्थः । एवं मध्यतो मध्यमे वयसि, मध्यमेन चोप- चारेण ; तथाऽन्ततोऽन्ते वयसि जघन्येन चोपचारेण - परिभवेन तथैवास्मै राध्यते संसिध्यत्यन्नम् । य एवं वेद-य एवमन्नस्य यथोक्तं माहात्म्यं वेद, तद्दानस्यै च फलम् तस्य यथोक्तं फलमुपनमते । , इदानीं ब्रह्मण उपासनप्रकार उच्यते- ( १ ) °स्य यथोक्तं फलमुपनयेत् इति पाठः । ९