पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शान्तिः स॒ह ना॑वतु । स॒ह नौ भुनक्तु । स॒ह वी॒र्य॑ करवावहै । तेजस्वि वर्धीतमस्तु | मा वि॑द्वष॒व । ॐ शान्तिः शान्तिः शान्तिः । हारैः ॐ ॥ १० दशमोऽनुवाक: ] इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषत् समाप्ता ॥ ३ ॥ भृगुस्तस्मै यतो विशन्ति तद्विजिशासस्व त्रयो- दशानं प्राणो मनो विज्ञानं द्वादश द्वादशाऽऽन- न्दो दशान्नं न निन्द्यादन्नं न परिचक्षीतान्नं बहु कुर्वीतैकादशैकादश न कंचनैकषष्टिदेश ॥ १३७ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषद्भाष्यं समाप्तम् ॥ तैत्तिरीयकभाष्यस्य शांकरस्य द्रढीयसः । स्फुटार्थबोधकामेभ्यो निरमाथि सुटिप्पणम् || इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दशिष्यानन्दज्ञानविरचितं तैत्तिरीयोपनिषच्छांकरभाष्यटिप्पणं समाप्तम् ॥ समाप्तेयं कृष्णयजुर्वेदीया तैत्तिरीयोपनिषत् | देहेन्द्रियकृते पुण्ये पापे चात्मतया सदा | पश्यन् सर्वात्मतां स्वस्य गायन् साम्नाऽवतिष्ठते ॥ १४३ ॥ अहमन्नं तथान्नादः श्लोककृच्चेतरोऽप्यहम् । इति सर्वात्मतां गायन् जीवन्मुक्त इतीर्यते ॥ १४४ ॥ जीवन्मुक्त्यवसानाया विद्याया मुख्यसाधनम् । विचारो ब्रह्मणस्तेन भृगुर्ब्रह्मावबुद्धवान् ॥ १४५ ॥ सत्यं तपो दमः शान्तिर्दानं धर्मः प्रजाग्नयः | अग्निहोत्रं यागयोगौ न्यासश्चैतैर्बुभुत्सताम् ॥ १४६॥ न्यासोऽधिकं तपो न्यासी युञ्जीतात्मानमोमिति । योगिनस्तस्य देहांशा योगाङ्गैरखिलैः समाः ॥१४७॥ अहोरात्रादिकालास्तु समा दर्शादियागकैः । जीवनं सत्रतुल्यं योगसेवकः ॥ १४८ ॥. स चोत्तरायणे प्रेत आदित्यं प्राप्य मुच्यते । अयने दक्षिणे प्रेतश्चन्द्रं प्राप्य न मुच्यते ॥ १४९ ॥ तैत्तिरीयकविद्यायाः प्रकाशेनोपसेविनः । बुभुत्सूननुगृह्णातु विद्यातीर्थमहेश्वरः ॥ १५० ॥ इति श्रीविद्यारण्यमुनिकृते अनुभूतिप्रकाशे तैत्तिरीयक- विद्याप्रकाशः समाप्तः ॥