पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ शंकरानन्दकृता अथ तृतीयोऽनुवाकः प्राणं मुख्यप्राणं देवाश्चक्षुरादयोऽन्यादयः । अनु प्राणमनु | प्राणन्ति चेष्टन्ते । मनुष्या मनुजाः । पशवश्च गवायाः । चकारः सर्वशरीरसंग्रहार्थः । ये प्रसिद्धार्थाः । प्राणो मुख्यप्राणः। हि यस्मात् । भूतानामण्डजादीनाम् । आयुर्जीवनकारणम् । अनेन देहे- न्द्रियात्मवादो निराकृतः। तस्मायस्मादायुस्ततः । सर्वायुषं सर्वायुरेव सर्वायुषम् । उच्यते कथ्यते । इदानीं मन्त्रोपासनवत्प्राणोपासनाफलं प्राणोपासनं चाऽऽह-सर्वमेव निखिलमेव । ते वक्ष्यमाणाः । आयुर्जीवनकारणं शतसंवत्सररूपं । यन्ति गच्छन्ति । ये प्राणं ब्रह्मो- पासते । प्राणं मुख्यप्राणम् । व्याख्यातमन्यत् । अन्नवत्प्राणस्यापि ब्रह्मसमानतां वक्तुं पुनरु- क्तस्याभिधानम् - प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । व्याख्यातम् । ब्रह्मणो यथा सर्वायुष्टं तद्वत्प्राणस्यापीत्यर्थः । इतिः प्राणकोशपरिसमाप्त्यर्थः । “तस्यैष एव शारीर आत्मा यः पूर्वस्य" एतदनन्तरं यद्यपीतिशब्दः पठनीयः प्राणकोशस्यात्र परिसमाप्तेः, तथाऽप्यस्य वाक्यस्यान्नमयादधिकत्वाच्छङ्कोत्तरत्वाञ्चैतस्मात्पूर्वपाठ इतिशब्दस्य । अथवा पाठक्रमादर्थक्रमस्य बलीयस्त्वादत्र पठितस्यापि तदनन्तरं संगतिरवगन्तव्या | [ब्रह्म-आनन्द-वडी - ननु – पूर्वस्मात्पुरुषादनन्यः प्राणमयस्तस्य तदन्तः पातित्वाद्धस्तपादादिवदित्यत आह - तस्यान्नमयस्य | एष एव समनन्तरोक्तः प्राणमय एव । शारीरः शरीरे भवः । आत्मा सर्वव्यवहारकारणत्वेनाऽऽत्मा । यः प्राणमयः । पूर्वस्य प्राणमयात्पूर्वस्य | तस्य पूर्वस्य यः प्राणमय एष एव शारीर आत्मेत्यन्वयः । अयं भावः – प्राणो न च स्थूलशरीरान्तः- पाती । तथा च सति नासापुटनिर्गतस्तद्वदेव चाक्षुषः स्यादिति । तस्माद्वा एतस्मात्प्राण- मयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव तस्य पुरुषविधताम् | अन्वयं पुरुषविधः | तस्य यजुरेव शिरः । ऋग्द- क्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । प्राणमयादुक्तात् । मनोमयो मनोविकारः । तस्य यजुर्यजुर्विष या वृत्तिः । ऋगृग्विषया दृत्तिः । साम सामविषया वृत्तिः । आदेशो यजुर्ऋक्सामनु ब्राह्मणमा - देशस्तद्विषया वृत्तिः । अर्थवाङ्गिरसोऽथर्वणाऽङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणानि च तद्विषया वृत्तिः | अन्यत्पूर्वेण समानपाठम् | अन्नमयार्थस्थले प्राणमयं प्राणमयार्थस्थले मनोमयं चोक्त्वा पूर्ववव्याख्येयम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्री मच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां ब्रह्म आनन्द वल्ल्यां तृतीयोऽनुवाकः ॥ ३ ॥