पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

तैत्तिरीयोपनिषसारसंग्रहः

तैत्तिरीयकोपनिषदेवं हि ब्रह्म प्रतिपादयति- प्रथमं 'ब्रह्मविदाप्नोति परम्'(२.१) इति संहिताद्युपासनादिभिः एकाग्रचित्तर्माधिकारिणं प्रति ब्रह्मविद्यां सविषयां सफलां सूत्रयामास । 'ब्रह्म' इति विषयनिर्देशः 'विद्' इत्यनेन विद्या निर्दिश्यते, 'परमाप्नोति' इति विद्याफलं निर्दिश्यते-इति विभागः। तदनन्तरं सूत्रस्यार्थं संक्षेपतः 'सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्रुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति'–अस्या ऋच उदाहरणेन व्याचकार। सत्यमित्यादि सूत्रस्थब्रह्मपद त्याख्यानम् , यो वेदेत्यादि विपद्व्याख्यानम् , सोऽश्रुत इत्यादि आप्नोतिपदद्वय- व्याख्यानामिति विभागः । ऋचोऽयमर्थः—सत्यं कालत्रयबाधाभावोपलक्षितम्, ज्ञानं स्वप्रकाशम् , अनन्तम्--अन्तः परिच्छेदः देशकालवस्तुकृतःतत्रिविधपरि च्छेदाभावोपलक्षितम् । ब्रह्मेति लक्ष्यनिर्देशः । सत्यादिपदत्रयं लक्षणम् । गुहायां बुद्धौ यत् कारणत्वेन वर्तमानं परमं व्योम अव्याकृताकाशं, तत्र निहितं प्रति- बिम्बिततयाऽवस्थितं यचैतन्यं तद्रह्मत्वेन यो वेद स सर्वान् कामान् सार्वभौमादिहिरण्यगर्भान्तान् सह-युगपदश्रुते भुक्तं । केन प्रकारेण? –विपश्चिता-सर्वज्ञेन ब्रह्मणा–सर्वज्ञब्रह्मरूपेण; नोपाधिपरिच्छिन्नरूपेण । ब्रह्मानन्दे स्वल्पानन्दानामन्तर्भावात्, सार्वभौमादिहिरण्यगर्भान्तभोगानां ब्रह्मविस्स्वरूपभूतत्वात्, चैतन्यभास्यत्वाच्च ब्रह्मविदो युगपत्सर्वभोक्तृत्वमित्यर्थः । अनन्तरं ब्रह्मणः सूत्रव्याख्यानरूपया ऋचा उदीरितानन्त्यसिद्धये आकाशादेर्ब्रह्मण एवोत्पत्तिं कथयामास । ततः यो वेदेत्याद्युक्तं ब्रह्मणः प्रत्यक्त्वं 'स वा एष पुरुषोऽन्नरसमयः' इत्यारभ्य देहादिपञ्चकोशात्मोपदेशक्रमेण 'ब्रह्म पुच्छं प्रतिष्ठा ' इति पुनर्विस्तरेण प्रतिपाद्यामास । ततः ब्रह्मणः नामरूपातीतस्य प्रत्यक्षाद्यविषयत्वेन असत्त्वशङ्कायाम् 'सोऽकामयत' इति कामयितृत्वेन स्वर्गकामिवत् , 'स तपोऽतप्यत' इत्यालोचकत्वेन मन्त्रिवत्, 'इदं सर्वमसृजत' इति स्रष्टृत्वेन कुलालवत् , 'तदेवानुप्राविशत् ’ इति प्रवेष्टृत्वेन सर्पवच्च सत्त्वमुपपाद्य,पुनश्च 'को ह्येवान्यात्’