पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
तैत्तिरीयोपनिषत्

न च, कर्महेतूनाम् कामानां ज्ञानाभावे निवृत्त्यसंभवात्, अशेषकर्मक्षयोपपतिः। अनात्मविदो हि कामः , अनात्मफलविषयत्वात्; स्वात्मनि च कामानुपपत्ति दिष्टाप्तत्वात् ; स्वयं चाऽऽत्मा परं ब्रह्मेत्युक्तम् । नित्यानां चाकरणमभावः,ततः प्रत्यवायानुपपत्तिः-इत्यतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणम्-इति "अकुर्वन्विहितं [] कर्म"-इति शतुर्नानुपपत्तिः ।


नेत्यादिना । यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमुक्षु:, तथाऽपि सञ्चितस्यानेकस्य संभवाव् , हेत्वभावोऽसिढं इत्यर्थः । प्रायणेनाभिव्यक्तानि सर्वाण्येव कर्माणि संभूयैकं शरीरमारभन्ते, तत्र सर्वेषामुपभोगेनैव क्षपितत्वात् , सञ्चितं कर्मैव नास्तीति ज्ञाननिराकरणयोक्तम्-विरूद्धफळानीति। स्वर्गनरकफळानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगेन क्षयासंभवात् , प्रायणस्य सर्वाभिव्यञ्जकत्वे प्रमाणाभावाद, बलवता प्रतिबद्धस्य दुर्बलस्यावस्थानं संभवतीत्यर्थः । संभावनामात्रमेतत्, नात्रप्रमाणमस्तीत्याशङ्क्याऽऽह -कर्मशेषेति।“प्रेत्य स्वकर्मफळमनुभूय ततः शेषेण .....जन्म प्रतिपद्यन्ते" इति स्वर्गादवरोहतां कर्मशेषसद्भावं दर्शयतीत्यर्थः। सञ्चितकर्मसद्भावमङ्गीकृत्य , देहान्तरारम्भोः न भविष्यतीत्याह--इष्टेति । एतद्भाट्टानाम् सिद्धान्तविरुद्धमित्याह-नेति । मुमुक्षुणाऽनुष्ठितस्य नित्यादेः सञ्चितकर्मक्षयार्थत्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह-यदि नामेति ।

यच्चोक्त्तम्-मुमुक्षुः काम्यानि वर्जयेत्--इति तदप्यसति विवेकबले दुर्घटम्, सति मूळाज्ञाने कामोद्भवस्य दुर्निवारत्वादित्याह--न च, कर्महेतूनामिति । ननु-कामो नांज्ञानमूलः आत्मविदामपि कामदर्शनादित्यत आह--स्वात्मनि चेति । सर्वमात्मेति पश्यतां तत्वतो विषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामाभास एव, वास्तवाभिनिवेशाभावादित्यर्थः । तेषामप्यर्चिरादिमार्गेण ब्रह्मप्राप्तिकामनाऽस्ति -इति नाऽऽशङ्कनीयमित्याह - स्वयं चेति। यच्चोक्तम्–अकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानि-इति तत्राऽऽह -नित्यानां चेति ।आगामि दुःखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभावो निमित्तम्;. "पापः पापेनं"[] इति श्रुतेः निषिद्धचरणनिमित्तकत्वादुःखस्येत्यर्थः। ।

अकुर्वन्विहितं कर्म निन्दितं च समाचरन् ।
प्रसञ्जश्चेन्द्रियार्थेषु नरः पतनमृच्छति []

इति शतृप्रत्ययादकरणस्यापि निमित्तत्वमवगतमित्याशङ्क्याऽऽह-अतः पूर्वेति। यदि यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यत्, तदा सञ्चितदुरितक्षयोऽभविष्यत्; न चायं विहितमकार्षीत्, अतः प्रत्यवायो भविष्यति–इति शिष्टैर्लक्ष्यते,-यथा ‘अविचिकित्सञ्छ्रोत्रियः’ इति । ततः शतृप्रत्ययस्यान्यथाप्युपपन्नत्वात् , न तद्बलादकरणस्य हेतुत्वमवगन्तुं शक्यत इत्यर्थः ।


(१) मनु. स्मृ.११-४४ तत्र ‘प्रायश्चित्तीयते नरः'--इति चतुर्थचरणः; याज्ञवल्क्यस्मृतौ ३-२१९ 'विहितस्य-इत्यादिश्लोकस्य चतुर्थचरणः ‘नरः पतनमृच्छति’ इति । (२) वृ. उ. ४४-५ः

  1. (१) मनु. स्मृ.११-४४ तत्र ‘प्रायश्चित्तीयते नरः'--इति चतुर्थचरणः; याज्ञवल्क्यस्मृतौ ३-२१९ 'विहितस्य-इत्यादिश्लोकस्य चतुर्थचरणः ‘नरः पतनमृच्छति’ इति ।
  2. (१) मनु. स्मृ.११-४४ तत्र ‘प्रायश्चित्तीयते नरः'--इति चतुर्थचरणः; याज्ञवल्क्यस्मृतौ ३-२१९ 'विहितस्य-इत्यादिश्लोकस्य चतुर्थचरणः ‘नरः पतनमृच्छति’ इति । (२) वृ. उ. ४४-५ः
  3. (२) वृ. उ. ४४-५ः