पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।

भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः।।

मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते ।

ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः ।

ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति (३)॥

 अयं लोकः,अग्निः,ऋग्वेदः, प्राण,-इति प्रथमा व्याहृतिर्भूरिति। एवमुत्तरोत्तरैकैका चतुर्धा भवति । वेद-प्राण-दृष्टिविधानम्  मह इति ब्रह्म- 'ब्रह्म' इत्योङ्कारः-शब्दाधिकारेऽन्यस्यासंभवात् । उक्तार्थमन्यत् । यथोक्तव्याहृत्युपसंहार: षोडशकलस्य पुरुषस्योपास्यत्वम्  ता वा एताश्चतस्रश्चतुर्धेति- 'ता वा एता'-भूर्भुवः सुवर्मह इति चतस्त्र एकैकशश्वतुर्धा चतुष्पकाराः; धाशब्दः प्रकारवचनः, चतस्रश्चतस्र: सत्यश्चतुर्धा भवन्तीत्यर्थः । तासां यथाक्लृप्तानां पुनरुपदेशस्तथैवोपासननियमार्थः । तासां व्याहृतीनामुपासनाविधिः  ता यथोक्तव्याहृतीर्यो वेद, स वेद विजानाति किं ? ब्रह्म । ननु–‘तद्ब्रह्म स आत्मा ’ इति ज्ञाते ब्रह्मणि न वक्तव्यमविज्ञातवत् -स वेद ब्रह्म -इतेि ?


 व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्तिविधिरुक्तः ; इदानीमङ्गविशेषविधिः कथ्यते--भूरितिवा अयं लोक इत्यादिना ।

 तत्रैकैका व्याहृतिश्चतुष्प्रकाराऽवगन्तव्येति तात्पर्यमाह--अयं लोक इत्यादिना ।

 कैका व्याहृतयो यदा चतुष्प्रकाराश्चिन्त्यन्ते, तदा षोडशकलः पुरुष उपासितो भवतीत्यभिप्रेत्य संक्षेपमाह--ता वा एता इति ।

 ‘स वेद ब्रह्म’ इति ब्रह्मवेदनं फलत्वेन न सङ्कीर्यतेऽधिकारविधिवाक्येकिन्तु वक्ष्यमाणा- नुवाकेनास्मिन्नेव ब्रह्मोपासने गुणविधानं भविष्यतीति सूचयितुमित्याह—न, तद्विशेषवि


(१) अन्तरिक्षम्, वायुःसाम, अपानश्च-द्वितीया; अस लकर ( परोक्षो लोकः स्वर्गलोकः ), आदित्यः, यजुः, व्यानश्च-तृतीया; आदित्यः, चन्द्रःब्रह्म, अन्नं च-चतुर्थीं।(२) ओझरेण हि सर्वेवेदाः पूज्यन्ते, वेदोच्चारणस्य प्रणवपूर्वकत्वात् । (३) ‘अयं लोकःइत्यादिना व्याहृतीनां प्रत्येकं चतुर्विधत्व-मुक्तमेव, किमिति पुनरुपदेशः? इत्याह ‘उपासननियमार्थः’ इति–व्याहृतीनां चतुर्विधत्वं स्तुत्यर्थं नोच्यते किंतु प्रत्येकं तासां चतुर्विधत्वेनोपासनं नियतमिष्यते । तथा षोडशकलस्य पुरुषस्योपास्यत्वमत्र सेत्स्यति । अधिकवचनस्यार्थविशेषसूचकवादित्यर्थः ।