पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५ पञ्चमोऽनुवाकः ]
१९
व्याहृत्युपासनम्


असौ लोको यजूम्षि वेद द्वे च ।

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां पञ्चमोऽनुवाकः ॥ ५ ॥


 न, तद्विशेषविवक्षुत्वाददोषः । सत्यं, विज्ञातं चतुर्थव्याहृत्यात्मा ब्रह्मेति, न तु तद्विशेषः हृदयान्तरुपलभ्यत्वम्, मनोमयत्वादिश्च ‘शान्तिसमृद्धम्’ इत्येवमन्तो विशेषणविशेष्यरूपो धर्मपूगः--विज्ञायते, इति तद्विवक्षु हि शास्त्रमविज्ञातमिव ब्रह्म मत्वा ‘सवेद ब्रह्म’इत्याह; अतो न दोषः । यो हि वक्ष्यमाणेन धर्मपूगेन विशिष्टं ब्रह्म वेद,‘स वेद ब्रह्म’ इत्यभिप्रायः । अतो वक्ष्यमाणानुवाकेनैकवाक्यताऽस्य, उभययोर्ह्यनुवाकयोरेकमुपासनम्, लिङ्गाच्च–‘भूरित्यग्नौ प्रतितिष्ठति’ इत्यादिकं लिङ्गमुपासनैकत्वे;- विधायकाभावाच्च–नहि ‘वेद’–'उपासीत'–इति विधायकः कश्चिच्छब्दोऽस्ति व्याहृत्यनुवाके ।'ता यो वेद' इति च वक्ष्यमाणार्थत्वान्नोपासनभेकः वक्ष्यमाणार्थत्वं च तद्विशेषविवश्रुत्वादित्यादिनोक्तम् ।  सर्वे देवा अस्मा एवं विदुषेऽङ्गभूता आवहन्त्यानयन्ति बलिं स्वराज्यप्राप्तौ सत्यामित्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः
कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये पञ्चमोऽनुवाकः ॥ ५ ॥


वक्षुत्वादित्यादिना । यदि व्याहृत्यवयवमेव ब्रह्मोत्तरत्रोपास्यते, तदैवोपासकस्य प्रथमव्याहृ त्यात्मकेऽग्नौ प्रतिष्ठाभिधानं घटेत । तस्माध्याहृत्यात्मकदेवताप्राप्त्यभिधानमुपासनैकत्वे लिङ्ग- मित्याह--लिङ्गाच्चेति । किञ्चैकत्र प्रधानविद्याविचिः, अपरत्र गुणविधिः—-इत्येवमनुवाकभेदे चरितार्थे, नानन्यथासिद्धं भेदकं प्रमाणमुपलभ्यत इत्याह-विधायकभावाच्चेति । विधायक इति भिन्नविद्याबोधक इत्यर्थः ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते
तैत्तरीयोपनिषच्छांकरभाष्यटिप्पणे शिक्षावल्ल्यां पञ्चमोऽनुवाकः ॥ ५॥


(१) ननु यथोक्तव्याहृतिरूपप्रतीकोपासकस्य ब्रह्मलोकप्राप्तिर्नास्ति, ‘‘अप्रतीकालम्बनान्नयतीति बादरा यणः” ( जे ४.३.१५. ) इति सूत्रे प्रतीकरहितब्रह्मोपासकानामेव तत्प्राप्तिनिर्णयात् । ततो ब्रह्मप्राप्त्यभा वेन सर्वदेवपूज्यत्वं न युक्तम्। नायं दोषः—यस्माद्यः पुमान् व्याहृतीर्वेद स पुमान्वक्ष्यमाणानुवाकोक्तं ब्रह्मोपास्ते । ब्रह्मोपासनमेवात्र प्रधानम् ; व्याहृत्युपासनमङ्गम्; तस्माद्रह्मप्राप्तौ सत्यां सर्वदेवपूज्यत्वं युक्तम् । अनुवाकभेदप्रमाणं तु नोपासनभेदारिसद्धयतीति वाच्यम् । तस्य गुणपरत्वेनान्यथासिद्धत्वात् । तस्मा दनन्यथासिद्धमुपासनाभेदेनैव सिद्धं प्रमाणं नोपलभ्यते इति काशीमुद्रितपुस्तके टिप्पणी ।