पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ शिक्षावल्ल्यामष्टमोऽनुवाकः ।

( प्रणवोपासना-शुद्धब्रह्मोपासना )

(उत्तमाधिकारी )

ओमिति ब्रह्म । ओमितीदम् सर्वम् ।

 व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम्; अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम्; इदानीं सर्वोपासनाङ्गभूतस्योम्कारस्योपासनं विधित्स्यते। परापरब्रह्मदृष्ट्या ह्युपास्यमान ओङ्कारः शब्दमात्रोऽपि परापरब्रह्मप्राप्तिसाधनं भवति,--स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च, प्रतिमेव विष्णो:,-"एतेनैवाऽऽयतनेनैकेतरमन्वेति" इति श्रुतेः ।

ॐङ्कारवाच्यब्रह्मोपासना  ओमिति—'इति'शब्द: स्वरूपपरिच्छेदार्थः । ओमित्येतच्छब्दरूपं ब्रह्मेति मनसा धारयेत्-उपासीत,यत ओमितीदं सर्वम्,- सर्वं हि शब्दरूपमोङ्कारेण व्याप्तम्, “तद्यथा शङ्कुना” इति श्रुत्यन्तरात्; अभिधानतन्त्रं ह्यभिधेयम्-इत्यत इदं सर्वमोङ्कार इत्युच्यते ।


वृत्तानुवादपूर्वकमुत्तरानुवाकमवतारयति--व्याहृत्यात्मन इत्यादिना । वेदविदां हि सर्वाः


रत्वात्(५)उत्कृष्टेऽपकृष्टबुद्धिरनर्थाय । अपकृष्टे पुनरुत्कर्षबुद्धिः श्रेयसे च द्विविधान्युपासनानि-अङग्रहयुक्ता नि, प्रतीकविषयाणि चेति । येषु परमात्मा सगुणः सन्तुपास्यते तान्यइंग्रइयुक्तानि। तद्यथा-स य एषोऽन्त हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः। असृतो हिरण्मयः”६अनुवाके ) इत्यत्र हृदयाकाशमध्यवर्ती परमारमाख्यःपुरुषो मनोमयत्वादिगुणयुक्त उपासितव्यः परमात्माहमिति । स चाईग्रहः-“आत्मेति तूपगच्छन्ति ग्राझ्यन्ति च”(ब्र.सू.४.१..)इति सूत्रेऽभिहितःपरमात्मव्यतिरिक्तानि लौकिकानि वस्तून्युकृष्टदेवतादृष्टया ब्रह्मदृष्टया वा संस्कृत्य यत्रोपास्यन्ते तानि प्रतीकविषयाणि । तद्यथा-“पृथिवी पूर्वरूपम्’ (३अनुवाके)-इ यत्र भूदेवतादृष्टया संस्कृतं पूर्ववर्णस्वरूपमुपास्यम् । ‘‘मनो ब्रहृत्युपासीत” (छi० ७ ३.१८.१.) इत्यादौ ब्रह्मदृष्टया संस्कृतं मनःप्रभृतिकमुपास्यन्।तच प्रतीकमुपासकेन न स्वारमतया ग्रहीतव्यम्; यतःप्रतीकस्य ब्रह्मा कार्यत्वेनोत्कृष्टदृष्टिप्रत्ययालम्बनत्वात्प्रतीकमित्युच्यते । यदि ब्रह्मकार्यस्य ब्रह्मौक्यमवलोक्येत तदा प्रतीकस्वरूपमेव विलीयेत । घटस्य मृद्पेणैक्ये विलयदर्शनात् । यदि जीवस्य ब्रह्मौक्यमवलोक्येत, तदा जीवत्वस्यापाये सति, उ पासकवं हीयेत। अथोपास्योपासकस्वरूपलोभेन कार्यकारणैक्यं जीवत्रबँक्यं च न पर्यालोच्येत,तदा गोमहिषव दत्यन्तभिन्नयोः प्रतीकोपासकयोनस्त्येकवयोग्यता । तस्मान्न प्रतीकस्याङदृष्टि:पृथिवी पूर्वरूपम्’इत्यत्र प्रथमानिविष्टत्वेनोद्देश्यतया यद्यपि पृथिव्याः प्रतीकवं प्राप्तम्, तथा चरमनिर्दिष्टत्वेन विधेयतया पूर्ववर्णस्य दृष्टि परत्वं प्राप्तम् तथापि पृथिव्या उत्कृष्टत्वात्तदृष्टिरेव पूर्ववर्णं कर्तव्या;–ययोत्सृष्टविष्णुशिवादिर्निकृष्टे शाल्यमादौ क्रियते, न तु विपर्ययः, तद्वत् । उत्कर्षन्यायः "ब्रह्मादृष्टिरुकर्षात्”(ब्र.स्.४.१.५) इत्यत्र चिन्तितः । शास्त्रे तत्र तत्र यान्युपासनान्युक्तानि, तैः समुचितानि यानि कर्माणि तेषां केवलस्य चास्मिन् हितोपदेशपरे ग्रन्थे. सर्वत्र चान्यत्रोपास्तिप्रकरणे मृत्युवं फलमुक्तम्, गौणी हि सा मुक्तिः—अशनायादिसंबन्धात्; सर्व स्मात्फलवदुपायराशेवैराग्यस्येष्टत्वात्; आत्यन्तिकी तु मुक्तिः सम्यग्ज्ञानादेव । (१) ‘तस्य वाचकः प्रणवः-यो. यु.१.२७. कठवीषु (५.२५) ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तोब्रह्मचर्यं चरन्ति तत्ते पदं सद्रेण ब्रवीमि”-इति प्रतिज्ञाय तदनन्तरं स