पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति ।

ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह,-

ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति (१) ॥

ओं दश

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यामष्टमोऽनुवाकः ॥ ८ ॥

अथ शिक्षावल्ल्यां नवमोऽनुवाकः ।

( उपासकधर्माः )

ऋतं च स्वाध्यायमवंचने च । सत्यं च स्वाध्यायप्रवचने च ।


तपश्च स्वाध्यायप्रवचने च। दमश्च स्वाध्यायप्रवंचने च । शमश्च

वयन्ति । तथा ‘ओमिति सामानि गायन्ति सामगाः ।‘ओंशोमिति शस्राणि शंस न्ति’ शत्रशंसितारोऽपि ।तथा ‘ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति’ । ‘ओमिति ब्रह्म प्रसौति’–अनुजानाति। ओमित्यग्निहोत्रमनुजानति'-जुहोमीत्युक्त ओ रित्येवानुज्ञां प्रयच्छति । ओमित्येव ब्राह्मणः प्रवक्ष्यन् प्रवचनं करिष्यन्नध्येष्य माण ओमेत्येवाऽऽह; ओमिति प्रतिपद्यतेऽध्येतुमित्यर्थः। ब्रह्म वेदमुपाप्नवानीति प्राप्नुयां ग्रहीष्यामीति; उपाप्नोत्येव ब्रह्म ।

 अथवा ब्रह्म परमात्मानमुपाश्नवानीत्यात्मानं प्रवक्ष्यन्प्रापयिष्यन्नोमित्येवाऽऽहः स च तेनङ्करेण ब्रह्म प्राप्नोत्येव । ओङ्कारपूर्वं प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात्, तस्मादोङ्कारं बलेत्युपासीतेति वाक्यार्थः

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छिवीभाष्येऽष्टमोऽनुवाकः ॥ ८ ॥


विज्ञानादेवाऽऽप्नोति स्वाराज्यमित्युकत्वात्श्रौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तम् -इत्यतस्तन्मा प्रापत् इति कर्मणां पुरुषार्थं प्रति साधनत्वप्रदर्शनार्थेमिः


गृणाति होतैः शंसनं प्रतिप्रतिशंसनमुच्चारयतीत्यर्थः । प्रवक्ष्यंक्षिति–“वचं परिभाषणे ’ इत्यस्य रूपं प्रथमव्याख्याने ; द्वितीये “ वहै प्रापणे ” इत्यस्य द्रष्टव्यम् ॥

इति श्रीमस्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दशानविराचिते तैत्तिरीयोपनिषच्छांकर- भाष्यटिप्पणे शिक्षावल्ल्यामष्टमोऽनुवाकः ॥ ८ ॥


(१) होतुः प्रशंसनमु०-इति पाठः (२) धा- पा. २.५३(३) ध प: १.१०२९.