पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
५७
ब्रह्मवेदनम्


परमे प्रकृष्टे व्योमन्व्योम्न्यानाशेऽव्याकृताल्ये तद्धि ‘ परमं व्योम ’ “एतस्मि न्नु खल्वझरे गाग्र्याकाशः” इत्यक्षरसंनिकर्षादः(२) गुह्य ब्योमन्-इति वा अव्याकृतमेव गुह्य सामानाधिकरण्यात्, अव्याकृताकाशमेव गुहा; तत्रापि निगूढाः सर्वे पदार्थात्रिषु कालेषु कारणत्वात्सूक्ष्मतरत्वाच्च तस्मिन्तर्निहितुं हृदयाकाश एव ब्रह्म; () हार्दमेव तु परमं व्योमेति न्याय्यं, विज्ञानाङ्गत्वेने परमं व्योम व्योम्नो विवक्षितत्वात् ।


धिकरण्येन व्याख्यातम् । व्योमशब्दस्य भूताकाचे रूढिं परित्यज्य, किमित्यव्याकृतविषयत्वं व्याख्यातम्? तत्राह--तदीति । भूताकाशस्य कार्यत्वेनापरमत्वाव, अव्याकृताकाशस्य कारणत्वेन परमत्वविशेषणसंभवाव्, शास्त्रान्तरे शतंपथे चाक्षरेण बह्मणा सामीप्याव गमाव, अव्याकृतं व्योमशब्देन लक्ष्यत इत्यर्थः । एवं पराभिप्रायेण व्याख्यायस्वाभिप्रायं व्याचष्टे-हार्दमेव त्विति । हृदयावच्छिन्ने धृताकाशे या गुहा, तस्य–बुद्धौ-साक्षितया ‘निहितम्’ अभिव्यक्तं ब्रॉोति व्याख्यानं युक्तम्-द्रष्टुभेदेन ब्रह्मण आपरोक्ष्यलाभाव ; अन्यथा समष्टिरूपेऽव्याकृते मायातत्वेऽवस्थितं जलेत्युक्ते ब्रवणः पारोक्ष्यं प्रसज्येत, पारोक्ष्येण च ज्ञानं नापरोक्षसंसाराध्यासनिवर्तकम् । तस्मादपरोक्षद्रष्टचैतन्याभेदेन ब्रह्मणः स्वहृदये प्रत्यक्ष- ताया विवक्षितत्वाद्दयाकाशमेव विज्ञानशेषभूतं विवक्षितमित्यर्थः।


जगज्जडं स्वतः स्फूर्तिराहित्याद्रह्म तु स्वयम् । स्फुरतीत्यजडं तेन शनमित्यभिधीयते ॥ ९ ॥
जडं घटद्यन्तवत्स्याद्देशकालादिवस्तुभिः ।न देशादिकृतोऽन्तोऽस्यब्रह्मानन्तं ततः स्मृतम्।। १० ॥
देशकालाद्यन्यवस्तुत्रयं मायाविशंभितम् । ब्रह्म सत्यं मायिकैस्तैः परिच्छिन्नं कथं भवेत् ॥ ११ ॥
जडानृतपरिच्छिन्नव्यावृस्यैव पदत्रयम् । लक्षकं स्यादखण्डस्य यत्तद्रनेति बुध्यताम् ॥ १२ ॥

                                       तैत्तिरीयकविव्यप्रकाशः

 (१) वृ. उ. ३. ८.११ (२) हृदयपुण्डरीकस्य मध्ये स्वांगुष्ठपरिमितो यः प्रसिद्ध आकाशःस एवात्र परमं व्योमेत्युच्यते । जागरणव्यवहारहेतुंस्वमव्यवहारहेतुं देहमध्यवर्याकाशं बाह्याकाशं चापेक्ष्य सर्वदुःखर हितयोः सुषुप्तिसमाध्योः स्थानत्वेन हृदयाकाशस्योत्कृष्टत्वं युक्तम् । तस्मिन्नाकाशेऽवस्थिता बुद्धिर्गुहा, तस्यां शतृशेयशानरूपत्रिपुटीव्यवहारस्य भ्रान्तिविवेकाभ्यां संपादितयोर्भागमोक्षयोश्च निगूढत्वात्तया बुध्योपलभ्यत्वेन ब्रह्म तत्र निहितम् । तत्र हि प्रत्यग्ब्रह्मास्ति । तुलय-सर्वत्रापि स्थितं ब्रह्म बुद्धावे वोपलभ्यते । गुहायां निहितं तेन बुद्धिस्थं वेद ईरितम् ” । आत्मपु. १०. १८६; तथा चोक्तं योगभाष्ये ( ४. २२. ) न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते → ॥ ६ गुहाहितं गहरेष्ठं पुराणम् ” (कठ. उ. २. १२.) इत्यादिश्रुतिषु यस्यां गुहायां शाश्वतं ब्रह्म निहितमित्युक्तं सा गुहा, न पातालादि-किन्तु अविशिष्टां ( चित्तादात्म्यापन्नां ) बुद्धिवृर्ति-ज्ञानवृत्तिमेव पण्डिताः पश्यन्ति इति संक्षेपार्थःपंचदशी ३. २. (३) ०नोपासनाङ्गत्वेन-इत्यधिको पाठः । १६