पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
६१
वृष्टि-अहाविवर्तः

( व्याख्यानम् )

तस्याद्वा एतस्माद्वात्मन आकाशः संभूतः । आरू
सुष्टिः :::शाद्वायुः । योनिः । अग्नेरापः । अदभ्यः पृथिवी ।
पृथिव्या ओषधयः । ओषधीभ्योऽनम्। अव्रात्पुरुषः।

 तस्मादिति मूळवाक्यमूत्रितं ‘ब्रह्म ’ परामृश्यते; एतस्मादितिमन्त्रवाक्ये अहात्मनोरेवेयनानन्तरं यथालक्षितम् । यद्दाऽऽदौ ब्राह्मणवाक्येन सूचिः तम्, यच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यनन्तरमेव लक्षितम्, तस्मादेतस्माब्रह्म


एवं सृष्टिवाक्यतात्पर्यमुक्त्वा पदानि विभजते तस्मादित्यादिना । अन्यकार्यपर्यन्तं


१५ ब्रह्मविदाप्नोति परम् ’ इति ब्रह्शनमात्राद्रह्मप्राप्तिश्रवणात्, “ ब्रह्मणा विपश्चिता ' इति च ब्रह्मविदो विपश्चितो ब्रह्मणा सामानाधिकरण्यश्रवणाद्रह्मात्मनोरैक्यावगमात् पूर्वोक्तसामानाधिकरण्यसामथ्र्यात् तस्मात् ’ इत्यत्रोक्ताभ्यां तदेतच्छब्दाभ्यां समानाधिकरणाभ्यां ब्रह्मात्मनोरभेदरूपं प्रत्यक्त्वं ब्रह्मणो भाति; तेन तस्मिन्नेतच्छब्दप्रयोगोपपत्तिरित्यर्थः । किञ्चस्मिन्वाक्ये ब्रह्मण्यात्मशब्दप्रयोगो दृश्यते, स चाऽऽत्मत्वे सत्येव ब्रह्मणो युज्यते, प्रतीचोऽन्यत्रास्मशब्दप्रयोगायोगात् । अतो युक्तं ब्रह्मात्मनेरैक्यम्-इति वार्तिकटीका २. १३८. तस्मादेवैतस्मादित्युक्ते सति, ऊंचा सुत्रेण च प्रतिपादितमेकमेव वस्त्वित्युक्तं भवति । अथवा परो. क्षवाचिना तच्छब्देन शास्त्रगम्यो ब्रह्मत्वाकारोऽभिधीयते । वैशब्दस्तस्मिन्ब्रह्मणि सर्ववेदान्तप्रसिद्धिप्रदर्शनार्थः। प्रत्यक्षवाचिनैतच्छब्देनापरोक्षानुभवगम्यः प्रत्यगात्मत्वाकारोऽभिधीयते । तदेव विस्पष्टयितुमात्मन इत्युच्यते । तस्मादेतस्मादितपदद्वयसामानाधिकरण्येन प्रत्यग्ब्रह्मणोस्तादात्म्यमुच्यंते । एतदेव पूर्वस्यामप्युचि ‘ब्रह्मणा वि पश्चिता ’ इति सामानाधिकरण्येनोदाहृतम्-इति सा. भाष्ये। सूत्रवाक्ये मन्त्रेच सत्यादिलक्षणोऽयमानन्दात्मा समीरितः, स भेदासंभवान्निर्भेदोऽद्धयो भवति । तत्र युक्तिस्त्वियं सृष्टिवाक्यप्रदार्शता–कारणाद्भिन्नस ताकत्वाभावः कार्यस्य प्रसिद्धः । ततो ब्रह्मण एव विश्वकारणत्वे प्रतिपादितेऽद्वयत्वं स्फुटं भवति । यतः सर्वत्र कार्यं कारणानुगमः प्रसिद्धःतेन सद्पं गगने स्थितम् गगनादिकं चोत्तरोत्तरत्रेति । अपरं त्वत्र कार्यं या कारणस्थितिः सा तादात्म्यसंबन्धेन–भेदसहिष्णुरभेदः इतिलक्षितेन बोध्या । अत्र भेदस्तु कल्पितः । परि गामिनः कारणस्य गुणाः कार्यं दृश्यन्ते–इति नियमेन यदि ज्ञानमात्मनो गुणोऽभविष्यत्, तदा भूतेषु दृष्ट मभविष्यत् ; परंतु तत् स्वरू न गुणः, अतो न दृश्यते । तदभावादात्मनो विवर्तापादानतैव ज्ञायते । विवतपादानता तु मायाशबलाख्येन कल्पितेनैव रूपेण भवति । अत्र श्रुति: प्रदर्शनार्थत्वेनाऽऽकाशा- दिकां कियतीमपि सृष्टिमुदाजहार । साकल्येन त्वभिधानमशक्यमनुपयुक्तं च । ब्रह्मावबोधद्वारत्वेन तदाभि- धानम् । ‘फळवत्सन्निधावफलं तदङ्गम्'-(शबरभाष्ये ४.४.१९) इति न्यायेनात्र सृष्टिकथनमद्वयत्वबो धद्वारवं भजते । तच्च द्वारत्वमल्पाभिधानेऽपि संपद्यते । द्वारत्वेनोपयोगो गौडपादाचार्येरुदाहृतः—मृद्धह विस्फुलिङ्गलैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथंचन” ॥ ( मां. ड. कारिका ३. १५२) इति । नहि सृष्टिरुपास्यत्वेन, शेयत्वेन वा स्वतन्त्रपुरुषार्थाय कल्पते । सृष्टिमुपासीत, दृष्टिविच्छेयः प्राप्नोति–इत्येवंवचनाभावात् । अत एव श्रुतिस्मृतिपुराणागमेषु परस्परविरोधेन बहुधा कथ्यमाना सृष्टिः सर्वोपि वार्तिककारैीकृता–“यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रियेह स्यासाध्वी