पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

[ ४ ] विगते वत्सरे तत्कालीनः काशिकराजकीयपाठालयप्रधानाध्य- महामहोपाध्याय पूज्यपादश्रीगोपीनाथ कविराज महोदयैः समा- दिष्टोऽहमेतद्ग्रन्थसम्पादने प्रावर्तिषि । सम्प्रति वर्तमानपाठालय. प्रधानाध्यक्षप्रभुवरडॉ.मङ्गलदेवशास्त्रि एम्.ए. डी. फिल् महोदयाना- मध्यक्षतायामवसितमेतत्सम्पादनम् । उभयोरपि प्राच्यनव्यप्रभु- वरयोरुपदेशेन दिग्दर्शनेन समुत्तेजनेन च प्राभवं कार्यमेतत्कर्तु मिति मान्यवरयो रुभयोरपि प्रभुवरयोः कृतज्ञतां शिरसा वहामि । पर्यवसाने मामकीनेनानेन प्रयत्नेन सर्वान्तर्यामिणी परब्रह्मणोऽ- नुग्रहशक्त्यात्मिका परदेवता श्रीः प्रीयतामिति प्रार्थये । शिवादिमाम्बानन्दान्तगुरुमण्डलरूपिणी । प्रीणातु सच्चिदानन्दविग्रहा श्रीः परा चितिः ॥ १॥ सरस्वतीभवनम् , काशी, कुशग्रहणी. भाद्र कृ०१५-शनौ संवत् 1994 4-9-37 विदुषो वशंवदः नारायणशास्त्री खिस्ते