पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। नागं कपालं डमरु त्रिशूलं दधतं प्रिये । नग्नं नीलजटाराजन्मस्तकं पञ्चमीसुतम् ॥ ३५ ॥ ततोऽष्टदलपत्रेषु वार्ताल्याद्यष्टकं यजेत् । शृणु त्वमेव तस्याने पूजयेन्महिषाष्टकम् ॥३६|| शृङ्गोद्यतं रक्तनेत्रं कुक्षिचक्रनिकुन्तनम् । नीलजीभूतसङ्काशं रिपुभूपातनक्षमम् ॥ ३७ ॥ शतपत्रं क्रमात्पूज्यं रुद्रार्कवसुदस्रकैः । त्रयस्त्रिंशद्दलगतैस्त्रितारोच्चरितैः पृथक् ॥३८॥ अवशिष्टे दले पू1ज्याः स्तंभिनी जृम्भिनीयुताः । शताराग्रे महेशानि महासिंहं समर्चयेत् ॥ ३९ ॥ सहस्रपत्रे सम्पूज्यं वाराहीणां सहस्रकम् । अङ्कुशान्ते महादेवि वाराह्यै नम आलिखेत् ॥४०॥ अनेन मनुना देवि पूजयेत्तु सहस्रधा। भूबिम्बे बटुकक्षेत्रयोगिनीगणपान्यजेत् ॥ ४१ ॥ पुनर्देवीं समाराध्य गन्धपुष्पादितर्पणैः। अक्षमाला हरिद्राया मुख्यस्तम्भनकारिणी ।। ४२ ॥ स्फाटिकी चाथ पद्माक्षरुद्राक्षादिसमुद्भवा। इति दक्षिणा मूर्तिसंहितायां पञ्चमीक्रमार्च- नविधिः सप्तत्रिंशः पटलः ॥ ३७॥ (१)'योज्या इतिपा।