पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

अट्त्रिंशः पटलः। अथ अष्टत्रिंशः पटलः । ईश्वर उवाच- अथातः सम्प्रवक्ष्यामि तर्पणं भुवि दुर्लभम् । तिलमैरेयबन्धूककुसुमैस्तर्पयेत्क्रमात् ॥ १ ॥ मनोहरे सुवर्णादिपात्रे सम्पूज्य पूर्ववत् । अनेन विधिना देवि प्रियो भवति निश्चयात् ॥२॥ एतस्या एव विद्यायाः कुण्डे च परमेश्वरी । विशेषः कथ्यते सोऽत्र सर्ववैरिनिकृन्तनः ॥ ३ ॥ एकहस्तमितं कुण्डमधोहस्तेन विस्तृतम् । हस्तखातं मनोरम्यं होमोऽप्यत्र निगद्यते ॥ ४ ॥ स्तम्भने शिवदिग्भागे निग्रहे यमदिग्भवेत् । आस्मिन् कुण्डे महेशानि भैरवाग्निं प्रपूजयेत् ॥५॥ लौकिकं वाऽर्चयेन्मन्त्री वक्ष्यमाणैः परेश्वरि । हृदयं भुवनेशान्या भुवनेशी च संलिखेत् ॥ ६ ॥ तस्या एव शिखां देवि बीजत्रयमिदं प्रिये । उक्त्वा भैरवमुच्चार्य चतुर्थ्यन्ते नमो लिखेत् ॥ ७ ॥ इत्यग्निपूजनं कृत्वा ततोऽनेराहुतिं त्यजेत् । पूर्वबीजत्रयं चैव त्वाग्नेये दिशि चालिखेत् ॥ ८ ॥ (१) पूर्वबीजत्रयं भैरवाग्नेयद्विठमालिखेत् । इतिपा० ।