पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्ठत्रिंशः पटलः । पिशितैर्गन्धपुष्पादिधूपदीपैश्च साधकः । तर्पयेद्योगिनीपिण्डं परमानन्दसुन्दरम् ॥ १९ ॥ सपद्मे वेश्म सङ्क1ल्प्य मृदा वा लोहकेन वा । निवेश्य कुण्डे वक्रे वा हुनेल्लाजारजःकणैः ॥ २० ॥ अयुतं सञ्जपन्देवि त्रिसप्त क्षणदा हुनेत् । त्वगसृड्मांसमेदोस्थिमज्जाशुक्राणि वैरिणः ॥ २१ ॥ योगिनीनां मुखे देवि पतन्त्यत्र न संशयः । अथाऽतः सम्प्रवक्ष्यामि साधकानन्दकारणम् ॥ २२ ॥ प्रणवं प्रणवेनैव सम्पुटीकृत्य योजयेत् । औभ्यामौभ्यां च साध्याख्यां ठकारेण च वेष्टयेत् ॥२३॥ अष्टभिः कुलिशैर्भित्वा ग्लौंक्षौमिति2 पदान्तरे । कुलिशाग्रे तारबीजं पार्थिवं मण्डलं ततः ॥ २४ ॥ रु3द्रस्वरे समारोप्य पतिपुष्पैः समर्चयेत् । पञ्चमी शाटकं यन्त्रं त्रिषु लोकेषु दुर्लभम् ॥ २५ ॥ सहस्रसङ्ख्याजप्तेन विषभाण्डे क्षिपेद् बुधः । १) 'सम्बाल्य' इति पाठः। (२) 'ज्लौंक्षों औमिति तदन्तरे' इतिपाठः । (३) कुलिशाङ्के लिखेन्नाम बाह्ये विद्यां समालिखेत् । बहिरङ्कुश- सम्बिद्धं सर्वमेतद्वरानने ॥ इत्यधिकः पा०॥ (४) 'शकटं' इतिपा०। (५) 'सहस्रसंख्यया जप्तं निशां भाण्डे क्षिपेद् बुधः । वसेद्रात्रो भूर्जपत्रे लिखित्वा स्थापयेत्सुधीः । इतिपा० ।