पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। श्यामलोहितमन्त्रज्ञो रक्तपुष्पैः समर्चयेत् ॥ २६ ॥ प्रेतधूमानले क्षिप्त्वा यजेद् गुरुविधानतः । सौवर्णं राजतं ताम्रं क्रमेणैतत्समर्चयेत् ॥ २७ ॥ कण्टकानि हरिद्राभैः पुष्पैराराधयेच्छिवाम् । धान्यराशौ च सायाह्ने विनिक्षिप्य च तद्भवेत् ॥२८॥ नूतने कुम्भकारस्य खर्परे यन्त्रमालिखेत् । अञ्जनाभैः समभ्यर्च्य कुसुमैः पथि देशिकः ॥ २९ ॥ उच्चाटयेत्तथा शीघ्रं कोट्यब्जं सुस्थिरं रिपुम् । तद्भाण्डं तु सतीद्रव्यैः भिन्नभिन्नाञ्जनप्रभैः ॥३०॥2 नै3श्यन्ति दृष्टयस्तेषां शत्रूणां नान्यथा भवेत् । हरिद्रया शिलामध्ये समालिख्याऽर्चयेत्सुधीः ॥३१॥ पीतपुष्पेषु तद्यन्त्रमधोवक्त्रं विनिःक्षिपेत् । वास्तम्भो जायते शीघ्रं वादिनां परमेश्वरि ॥३२॥ अथ सीसे समालिख्य सीसाभैः कुसुमैर्यजेत् । शिलाधःस्ताद्विनिःक्षिप्य व्यवहारे जयी भवेत् ॥३३॥ (१) 'कटकार्थी' इतिपा० । (२) 'भिन्नभिन्नाजनप्रिये' इतिपा० । (३) निःसाणे पटहे वाद्ये विलिखेन्मनुवित्तमः । युद्धे तद्ध्वनिमाकण्यं पलायन्ते महाबलाः॥ समुद्धृत्य समभ्यर्च्य लोहकारगृहे क्षिपेत् । वध्यमानो रोगजाले मरणं प्राप्नुयाद्रिपुः ॥ धूमाभिन्नौ समालिख्य धूमाभैरर्चयेत्प्रिये । इत्यधिक पाठः ।