पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनचत्वारिंशः पटलः। ९१ सर्वलोहमये पत्रे सितपुष्पैः समर्चयेत् । वाक्पतिर्जायते मन्त्री पञ्चसारेऽथ संलिखेत् ॥३४॥ पञ्चवर्णैः प्रसूनैश्च पूजयेत्सर्वकर्मकृत् । अथातस्तिमिरामित्रैः सीसयुग्मे लिखेद् बुधः ॥ ३५ ॥ अभ्यर्च्य कुसुमै रम्यैः प्रेतभूमौ प्रतापयेत् । तेनाकृष्टिर्भवेदाशु रि1पूणां योषितामपि ॥ ३६ ॥ वृक्षगर्भे न्यसेच्चक्रं सीसपाने सुरञ्जितम् । बहिः स्वग्रामभागेभ्यः सम्प्रवि2ष्टा भवन्ति हि ।। ३७॥ सा3ध्यनक्षत्रवृक्षस्य गर्भे चक्र प्रविन्यसेत् । रोगदम्भस्य निक्षिप्तं हितदं भूमिदं प्रिये ॥ ३८ ॥ अनु4गं कामिनी दद्यात्कुम्भे क्षिप्ते धनप्र5दम् । पूर्वस्यां दिशि सङ्क्षिप्तं रिपूणां भयदं भवेत् ॥ ३९ ।। आग्नेयमग्निंदिग्भागे वैरिणां मृत्युदं भवेत् । तथा नैऋत्यदिग्भागे शत्रून्मादनकारणम् ॥ ४० ॥ पश्चिमे रोगदं तेषां भीतिदं वायुदिग्गतम् । धनदं चोत्तरं भागे साधकस्य न संशयः ॥४१॥ ईशानगं भ्रान्तिकरं वैरिणां परमेश्वरि । (१) 'पुंसां वा' इतिपा० । (२) 'सम्प्रतिष्ठा' इतिपा। (३) 'साध्यवृक्षस्य गर्भे च सन्निवेश्य प्रविन्यसेत्' इतिपा० । (४) अन्नगं' इतिपा०। (५) 'सुत इतिपा।