पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। मध्यगं सर्वकार्याणि शत्रूणां नाशयेत् ध्रुवम् ॥४२॥ एतस्या एव विद्याया मध्यरात्रेऽर्चनं भवेत् । अन्यथा देवताशापो जायतेऽतीव दुस्तरः ॥ ४३ ॥ इति दक्षिणामूर्तिसंहितायां पञ्चमीशकटयन्त्रोद्धार- प्रयोगसाधनविधिरष्टत्रिंशःपटलः॥ ३८ ॥ अथोनचत्वारिंशःपटलः। ईश्वर उवाच- पञ्चरात्रे महातन्त्रे कथिता वैष्णवागमे । एनामाराध्य देवेशि पालकोऽभुज्जगत्रये ॥ १॥ विद्याकदम्बचक्रस्था शिवविद्या मयेरिता । ताः सन्ति नव देवेशि तस्माच्छिवमयी शिवा ॥ २ ॥ सिद्धिरत्नमहातन्त्रे कथितो गणपागमः । सप्तकोटिमहातन्त्रैर्मण्डितस्तन्मयी शिवा ॥ ३ ॥ वामदेवमहातन्त्रे सौरज्ञानप्रकाशकः । मनसस्तन्मयी देवी ज्ञानशक्तिरितीरिता ॥ ४ ॥ अतः संसेव्यते देवी चतुरायतनैः सदा ।