पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

चत्वारिंशः पटलः । सिंहासनप्रसङ्गेन चतुरन्वयदेवता ॥ ५ ॥ कथिता परमेशानि सम्पदेषां न संशयः । यस्याःस्मरणमात्रेण पलायन्ते महापदः ॥ ६ ॥ इति दक्षिणामूर्तिसंहितायामायताम्नायविवरणं नामैको- नचत्वारिंशःपटलः ॥३९॥ अथ चत्वारिंशः पटलः। इश्वर उवाच- अथ वक्ष्ये महेशानि नित्याविवरणं क्रमात् । कामेश्वरीमहाभेदा बहवः सन्ति पार्वति ॥ १॥ तत्र कामेश्वरी विद्या कथ्यते भुवि दुर्लभा । त्रिपुरेशी समुच्चार्य त्रितारान्ते तु हत्ततः ॥ २॥ कामेश्वरीपदं चोक्त्वा इच्छाकामफलप्रदे। सर्वसत्ववशं प्रोक्त्वा करि सर्वजगत्पदम् ॥ ३ ॥ क्षोभान्ते तु करी हूँ हूँ बाणांश्च त्रिपुरेश्वरी । विपरीतां समालिख्य विद्यां षट्त्रिंशदक्षरीम् ॥ ४ ॥ आद्यभागत्रयेणैव द्विरावृत्त्या षडङ्गकम् ।