पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। कामेश्वरीव ऋष्यादिध्यानयन्त्रार्चनादिकम् ॥ ५ ॥ इति दक्षिणामूर्तिसंहितायां कामेश्वरीनित्याविद्या विवरणं नाम चत्वारिंशः पटलः ॥ ४०॥ अथैकचत्वारिंशः पटलः। इश्वर उवाच- अथ वक्ष्ये महेशानि विद्यां श्रीभगमालिनीम् । वाग्भवं भगशब्दान्ते भुगे वाग्भवमेव च ॥ १ ॥ भगिन्यन्ते वाग्भवं च भगोदरि च वाग्भवम् । भगमाले वाग्भवं च वाग्भवादौ भगावहे ॥२॥ भगगुह्ये वाग्भवं च भगयोनि च वाग्भवम् । भगिन्यन्ते पातनीति वाग्भवं भगसर्वच ॥३॥ आदिवाग्भवमालिख्य ततो भगवशङ्करि । वाग्भवं भगरूपे तत् भगनित्ये च वाग्भवम् ॥ ४ ॥ भगक्लिन्ने वाग्भवं च भगस्यान्ते समालिखेत् । रूपे सर्वभगानीति मे ह्यानय च वाग्भवम् ॥ ५॥ वाग्भवादौ भगवति भगवान्ते वदे च वाक् ।