पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकचत्वारिंशः पटलः। ९५ भगरेते वाग्भवं च भगति च समालिखेत् ॥ ६॥ रेते वाग्भवमालिख्य भगक्लिन्ने च वाग्भवम् । भगक्लिन्नद्रवे चान्ते भगं क्लेदय चालिखेत् ॥७॥ भगं द्रावय चालिख्य भगामोघे भगेति च । विच्चे भगं क्षोभयेति सर्वसत्वान्भगेश्वरी ॥ ८ ॥ वाग्भवं च भगं चैव वाग्भवं भगमें लिखेत् । वाग्भवं च भगक्लीं च वाग्भवं भगमालिखेत् ॥ ९ ॥ वाग्भवं च भगं चैव वाग्भवं भगमों लिखेत् । वाग्भवं च भगब्लूं च वाग्भवं भगमालिखेत् ॥१०॥ वाग्भवं च भगब्लूं च वाग्भवं भगमोंलिखेत् । भगक्लिन्ने च सर्वाणि भगान्यथ च मे लिखेत् ॥११॥ वशमानय चालिख्य भगपञ्चकमन्मथम् । भगान्तरे भगान्ते च हरब्लेमात्मकं लिखेत् ॥१२॥ भगान्ते पञ्चमं कामं ततो वै भगमालिनीम् । ङेन्तामुच्चार्य विज्ञेयं त्रैलोक्य वश कारिणी ॥१३॥ चतुराधिकविंशत्या द्विशतेन च मण्डिता । वर्णानां भगमालेयं नित्या सकलासिद्धिदा ॥ १४ ॥ ऋषिरस्यास्तु सुभगो गायत्री छन्द उच्यते । देवतेयं तु बीजं तु हरब्लेमात्मकं प्रिये ॥ १५ ॥ शक्तिः स्त्रीबीजकं ब्लूं तु कीलकं परमेश्वरी ।