पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति

९६ दक्षिणामूर्तिसंहितः । षड्दीर्घस्वरभेदेन न्यसेदङ्गानि देशिकः ॥ १६ ॥ कामन्यासं तथा बाणन्यासं कुर्यात्तु पूर्ववत् । कदम्बवनमध्यस्थामुद्यत्सुर्य्यसमद्युतिम् ॥१७॥ नानाभूषणसम्पन्नां त्रैलोक्याकर्षणक्षमाम् । पाशाङ्कुशौ पुस्तकं च तौलिका नख1लेखनीम् ॥१८॥ वरदं चाभयं चैव दधतीं विश्वमातरम् । एवं ध्यात्वा ततो लक्षं मिताहारो जपेन्नरः ॥१९॥ तद्दशांशेन बन्धूकस्त्रिमध्वक्तैर्हनेछुचिः । त्रिकोणं चैव षट्कोणं ततः षोडशपत्रकम् ॥२०॥ ततोऽष्टपत्रं भूबिम्बमेवं मण्डलमालिखेत् । मध्ये देवीं समभ्यर्च्य ततोऽङ्गावरणं यजेत् ॥ २१ ॥ विद्यादिशक्तित्रितयं त्रिकोणेषु प्रपूजयेत् । क्रमेण चाग्रमारभ्य पुनस्तेषु समच्र्चयेत् ॥ २२ ॥ सुभगां च भगां चैव तथा च भगसर्पिणीम् । बाणांश्च देवि तत्रैव पूर्ववत्पूजयेत्सुधीः ॥ २३ ॥ भगमालादिषट्कं च कोणचक्रेषु पूजयेत् । वशंकरीं च रूपीं च नित्यक्लिन्नां च रूपिणीम् ॥२४॥ तथा भगवतीं चैव वरदां परमेश्वरीम् । रेतां सुरेतां क्लिन्नां च तथा क्लिन्नद्रवामपि ॥ २५ ॥ (१) मौलिस्थीगतलेखनीम्' इति पा० ।