पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विचत्वारिंशः पटलः । अमोघां चैव विद्यां च तथेशीं क्लिन्नदेवताम् । एताः षोडश देवेशि भगवा1क्येन योजयेत् । अष्टपत्रेषु देव्यस्तु मातरः परमेश्वरि । इन्द्रादयस्तु भूबिम्बे पुनर्देवीं समर्चयेत् ॥ २७ ॥ इति दक्षिणामूर्तिसंहितायां भगमालिनीनित्यावि- धिरेकचत्वारिंशः पटलः ॥ ४१ ॥ अथ द्विचत्वारिंशः पटलः । इश्वर उवाच- भुवनेशी समुच्चार्य नित्यक्लिन्ने मदद्रवे । वह्निजाया च विद्येयं रुद्रवर्णा महोत्कटा ॥१॥ ऋषिर्ब्रह्मा समुद्दिष्टो विराट् छन्द उदीरितम् । नित्यक्लिन्ना देवतोक्ता वनिताद्राविणी परा ॥ २ ॥ बीजं माया वह्निजाया शक्तिः क्लीं कीलकं मतम् । एकेन च तथा द्वाभ्यां द्वाभ्यां द्वाभ्यां क्रमात् प्रिये ॥३॥ द्वाभ्यां द्वाभ्यां षडङ्गानि बिन्यसेद्देशिकोत्तमः । (१) 'भगशब्देन' इति पा० ।