पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ दक्षिणमूर्तिसंहिता। रक्तां रक्ताङ्गवसनां चन्द्रचूडां त्रिलोचनाम् ॥ ४ ॥ स्विद्यद्वक्त्रा मदाघूर्णलोचना रत्नभूषिताम् । पाशाङ्कुशौ कपालं च महाभीतिहरं तथा ॥ ५ ॥ दधतीं संस्मरेन्नित्यां पद्मासनविराजिताम् । वर्णलक्षं जपेन्मन्त्रं तद्दशांशेन होमयेत् ॥ ६ ॥ तिलैस्त्रिमधुसंयुक्तैः पुरश्चारी भवेद् 1बुधः । मधूकपुष्पैव्र्वा होमो हविषा वाऽथ नीरजैः ॥ ७ ॥ त्रिकोणं चाष्टपत्रं च ततो भूबिम्बमालिखेत् । आदौ देवीं समभ्यर्च्च ततोऽङ्गावरणं यजेत् ॥ ८ ॥ त्रिकोंणे पूजयेदेवी नित्याक्लिन्नां मदद्रवाम् । मातरो दलमूलेषु दलमध्येषु पूजयेत् ॥ ९ ॥ नित्यां निरञ्जनां क्लिन्नां क्लेदिनीं मदनातुराम् । मदद्रवां द्राविणीं च क्षोभिणीं च प्रपूजयेत् ॥ १० ॥ भूबिम्बे लोकपालाः स्युः पुनर्देवीं समर्चयेत् । इति नित्या तृतीयेयं भोगमोक्षफलप्रदा ॥ ११ ॥ कथिता देवदेवेशि त्रैलोक्यवशकारिणी । इति श्रीदक्षिणामूर्तिसंहितायां नित्यक्लिन्नानित्याविधि- र्द्निचत्वारिंशः पटलः ॥ ४२ ॥ (१) भवेत् प्रिये' इति पा० ।