पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिचत्वारिशः पटलः। ९९ अथ त्रिचत्वारिंशः पटलः । अथ वक्ष्ये महेशानि भेरुण्डां परमे1श्वरीम् । ततो भ्रोङ्कारमुच्चार्याङ्कुशाभ्यां च सुवेष्टितम् ॥ १ ॥ अन्त्यहीनं चवर्गं तु चतुर्द्धा रेफमण्डितम् । अनुग्रहेन्दुबिन्द्वाढ्यं तारः स्वाहोदरस्थितिः ॥ २ ॥ मनुर्द्दशार्णो देवेशि महाविषहरो भवेत् । ऋषिरस्या महाविष्णुर्गायत्री छन्द उच्यते ॥ ३ ॥ देवतेय परा शक्तिस्तृतीयं बीजमुच्यते । वह्निजाया तु शक्तिः स्यात्कीलकं सृणिरेव च ॥४॥ षड्दीर्घस्वरभेदेन बीजेनैव षडङ्गकम् । चन्द्रकोटिप्रतीकाशां स्रवन्तीममृतद्रवैः ॥ ५ ॥ नीलकण्ठी त्रिनेत्रां च नानाभरणभूषिताम् । इन्द्रनीलस्फुरत्कान्ति शिखिवाहनशोभिताम् ॥ ६ ॥ पाशाङ्कुशौ कपालं च छुरिकां वरदाभयौ । बिभ्रतीं हेमसम्बद्धगरुडोद्गारभूषिताम् ॥ ७ ॥ एवं ध्यात्वा जपेद्वर्णलक्षं तु विजितेन्द्रियः । तद्दंशाशेन जुहुयात् श्वेतपद्मैः परेश्वरीम् ॥ ८ ॥ (१)'परमेश्वरि' इति पा० । (२) 'भरोंकारं समुच्चार्या०' इति पा० ।