पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० दक्षिणामूर्तिसंहिता। त्रिकोणं चाष्टपत्रं च ततो भूबिम्बमालिखेत् । मध्ये प्रणवबीजेन त्रिकोणस्य च पार्श्वयोः ॥ ९॥ सृणिद्वयं त्रिकोणेषु पञ्चमादित्रयं न्यसेत् । अवशिष्टं त्रिकोणाग्रे कोट्यग्रेषु च संलिखेत् ॥ १० ॥ मात्रामन्त्रक्रमेणैव वसुपत्रेषु चालिखेत् । वस्वक्षरविभागेन चतुःषष्टयर्णविग्रहाम् ॥ ११ ॥ भेरुण्डा संलिखेन्मन्त्री महाविषहरां प्रिये । भुवनेशी समुच्चार्य ततस्त्रिभुवनेति च ॥ १२ ॥ विद्यै1 नमः सिद्धजिते सर्वलोकप्रपूजिते । भ्रम भ्रम महामोहे द्विधा हूमात्मकं लिखेत् ॥ १३ ॥ विच्चेयुगं कुले कौले कुसुमाले ततः परम् । भे2रूण्डे शिखि चालिख्य वाहिनीति ततः परम् ॥१४॥ नीलकण्ठे च रौद्रे च ततो वेतालि सोम च । मातृके भुवनेशीं च चतुःषष्ट्यर्णविग्रहाः ॥ १५॥ छन्दोऽनुष्टुब् ऋषिर्ब्रह्मा बीजं तु भुवनेश्वरी । भेरुण्डा देवता ज्ञेया पुरुषार्थप्रदायिनी ॥ १६ ॥ षड्दीर्घस्वरभेदेन बीजेनैव षडङ्गकम् । ध्यानं तु पूर्ववद्देवीपूजाद्वन्द्वे समाचरेत्3 ॥ १७ ॥ (१) 'षिद्येनमस्ततः सिद्धेत्वजितेलोकपूजिते । इति पा० । (२) इमद्धं 'स्व' पुस्तके नास्तिक । (३)'समालिखेत्' इति पा० ।