पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

स्त्रिचत्वारिंशः पटलः । १०१ महाबिम्बे मातृकाया वर्णा लेख्याः क्रमेण तु । तत्राबाह्य महेशानीमुपचारैः समर्च्चयेत् ॥ १८ ॥ अङ्गानां पूर्ववत्पूजां त्रिकोणेषु ततः शृणु। शिखिनीं नीलकण्ठं च रौद्रीं चैव क्रमाद्यजेत् ॥२०॥ त्रिकोणपार्श्वयोः पूज्ये वेताली सोममातृका । ततस्त्रिभुवनेशानीं सिद्धां चैवा1पराजिताम् ॥ २० ॥ लोकपूज्यां महामोहां कुलां कौलां तथैव च । कु2सुमाष्टकपत्रेषु पुर आरभ्य पूजयेत् ॥ २१ ॥ ततश्च मातरः पूज्या वसुपत्रषु मन्त्रवित्3 । इन्द्रादयस्तु भूबिम्बे पुनर्देवी समर्च्चयेत् ॥ २२ ॥ इति श्रीदक्षिणामूर्तिसंहितायां भेरुण्डानित्यायजनविधि- स्त्रिचत्वारिंशः पटलः ॥ ४३ ॥ -. (१) 'सिद्धचैषाजितामपि' इति पा० । (२) 'कुशूलामष्टपत्रेषु पुरादिप्रपूजयेत्' इति पा० । (३) सुन्दरि' इति पा०।