पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अथ चतुश्चत्वारिंशः पटलः । ईश्वर उवाच- शृणु देवि प्रवक्ष्यामि नित्यां बै वह्निवासिनीम् । परां विलिख्य वन्ह्यन्ते वासिन्यै नम इत्यपि ॥ १॥ अष्टार्णोऽयं महेशानि पुरुषार्थप्रदो मनुः । ऋषिरस्य वसिष्ठः स्यात् गायत्री छन्द उच्यते ॥२॥ आद्यन्ते बीजशक्ती स्यात् कीलकं मध्य एव च। देवीपदत्रयेणैव द्विरावृत्त्याङ्गमेव 1च ॥ ३ ॥ पदत्रयं देहभागत्रये विन्यस्य देशिकः । ध्यायेत्तप्तसुवर्णाभां नानालङ्कारभूषिताम् ॥ ४ ॥ पाशाकुंशौ स्वस्तिकं च शक्तिं च वरदाभयौ । दधती रत्नमुकुटां त्रैलोक्यतिमिरापहाम् ॥ ५॥ वर्णलक्षं जपेन्मन्त्रं तद्दशांशेन होमयेत् । घृतान्नेन वरारोहे ततः सिद्धो भवेन्मनुः ॥ ६ ॥ अष्टपत्रं लिखेत्पद्मं विद्यां प्रतिदले लिखेत् । एकैकाक्षरभेदेन ततो भूबिम्बमालिखेत् ॥ ७ ॥ मध्ये पीठं समभ्यर्च्य दिक्षु मध्ये च पार्वती । पीता श्वेताऽरुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी ॥८॥ (१) द्निरावृत्त्याङ्गकं न्यसेत्' इति पा० ।